________________ प्राचार्यविजयामृतसूरीश्वरकृतायां विवदिनोदिन्यां पञ्चमः सर्गः / [265 5 / 2 / 64 // इत्यनेन भुवो 'दुः' प्रत्ययः / शुक्रजाम्-शोचन्ति पान्था अत्रेति शुक्रो ज्येष्ठमासस्तत्र जाता समुत्पन्ना शुक्रजा तान्तथा / चतुर्दशीम-तदाख्यातिपावनतिथिविशेषम् / आप्य-समधिगत्य। व्रती-व्रतं नियमः संयम इति यावदस्त्यस्येति व्रती / च-पुनः / बहुलाम्-कृष्णपक्षीयाम / ताम्चतुर्दशीम् / (पाप्य ) कचेषु-केशेषु / कषायपावकस्थितिप्ररोहत्तमभूमधूमताम्-कषाया क्रोधमानमायालोभा एव पावको वह्निः कषायपावकस्तस्य स्थितिरवस्थानम् , कषायपावकस्थितिस्तया प्ररो. हत्तमोऽतिशयेन प्रादुर्भूतो भूमा बाहुल्यं यस्य स कषायपावकस्थितिप्ररोहत्तममूमः स चासो धूमो वायुवाहः, कषायपावकस्थितिप्ररोहत्तमभूमधूमस्तस्य भावः तत्ता तान्तथा / मत्वा-अवबुध्य / इवयथा / लोचकृत-लोचं लुञ्चनम् मूलचूलमुत्पाटनमिति यावत् , करोतीति लोचकृत् / बभूवभभूत् // 12 // प्रकाममादित्यमवाप्य कण्टके-स्तपस्यतोऽभूत् तनुरर्हरतः कटुः / पटुःसमाधौ विमना मनाग न सा, रसालसा वा नियमाद् यमादपि // 13 // अन्वयः-प्रकामम् , आदित्यम् , अवाप्य, कण्टकैः, तपस्यतः, अर्हतः, तनुः, कहा, अभूत् , समायो, पटुः, विमनाः, नियमात् , वा यमात् , सा, अपि, मनाक्, रसालसा, न // 13 // - इतिः-प्रकामम्-पर्याप्तं यथा स्यात्तथा / आदित्यम्-अदितेरपत्यम् पुमान् आदित्यः सूर्य्यस्तन्तथा / अवाप्य-अधिगत्य समाश्रित्येति यावत् / कण्टकैः-दुमाङ्गः, तीक्ष्णामवृक्षाङ्गरिति यावत् / उपलक्षितायां भूमाविति शेषश्च / तपस्यत:-तपस्यामाचरतः / अर्हतः-जिनेश्वरस्य, षोडशतीर्थकृतः शान्तिनाथस्येति यावत् / तनुः-शरीरः / कटुः-तिक्तः / अभृत-अभवत् / समाधौ-अर्थमात्राभासनरूपकध्याने / पटुः-चतुरः निष्णात इति यावत् / विमना:-वि विशिष्टं मनोऽन्तःकरणं यस्म म तथा / यद्वा-समाधौ पटुः, विषयेषु विमनाः-वैमनस्यवान् विराग इत्यर्थः, अर्हन्निति शेषः / निमयाव-व्रतात् / वा-समुच्चये / यमात-संयमात् , ब्रह्मवयंसंरक्षगप्रमुखादिति भावः / सातनुः / अपि-सम्भावनायाम् / मनाक्-ईषत् , किश्चिदपीति शेषः / रसालसा-रसैमधुरादिभिरलसाऽस्मवती तथा / न-नहि // 13 // सुरार्चने चन्दनचन्द्रलेपनैः, करम्बितामोदभरं विवृण्वती / तनुर्ननु प्रोढिसमाधिसाधने-र्जिनस्य विश्वम्भरतामिवाऽन्वशात् // 14 // 'अन्वयः-पन्दनवनइलेपनसरार्थने, (सति) रम्बितामोदभरम् , विवृण्वती, बिनम्म, तनुः,