________________ 266 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे ननु, प्रौढिसमाधिसाधनैः, विश्वम्भरताम् , इव, अन्वशात् // 14 // वृत्तिः-चन्दनचन्द्रलेपनैः-चन्दनं मलयजञ्च चन्द्रः कर्पूरश्च चन्दनचन्द्रौ, तयोर्लेपनानि चन्दनचन्द्रलेपनानि तैस्तथा / सरार्चने-सुरैर्देवैरर्चनं पूजनं सुरार्चनम् , तस्मिँस्तथा / सतीति शेष / कर म्बितामोदभरम्-करम्बितो व्याप्तश्च ।सावामोदः सम्मदः, करम्बितामोदस्तस्य भरोऽतिशयः, करम्बितामोदभरस्तन्तथा / विवृण्वती-प्रकटयन्ती। जिनस्य-पारगतस्य, अर्हत इति शेषः / तनु:शरीरम् / ननु-निश्चयेन / प्रौढिसमाधिसाधनैः-प्रौढ्या प्रौढतया समाधिरर्थमात्रावभासनरूपकध्यानम् प्रौढिसमाधिस्तस्य साधनानि सम्पादनानि प्रौढिसमाधिसाधनानि तैस्तथा। विश्वम्भरताम्विश्वं जगद् बिभर्ति पोषयति इति विश्वम्भरस्तस्य भावो विश्वभरता, तान्तथा। अन्वशोत्-प्राप्नोत् / इव-यथा // 14 // कचित् तनूत्सर्जनमुद्रया विभो-रनर्तिमूर्तिर्वरिवर्ति सा स्म या। धृतस्फुटश्रीगृहविग्रहा दिवा-निशं मृणालाभभुजावलम्बिनी // 15 // अन्वयः-विभोः, सा, अनर्तिमूर्तिः, क्वचित् , तनूत्सर्जनमुद्रया, वरिवर्ति स्म. या, धृतस्फुटश्रीगृहविग्रहा, दिवानिशम् , मृणालामभुजावलम्बिनी // 15 // वृत्तिः-विभोः-स्वामिनः, भगवतः शान्तिनाथस्येति यावत्। सा-प्रसिद्धा / अनर्तिमतिःअविद्यमानाऽतिः पीडा यस्यां साऽनर्तिः सा चासौ मूर्तिः शरीरम् , तथा / क्वचित्-कुत्रापि / तनूत्सर्जनमुद्रया-कायोत्सर्गप्रणालिकया / वरिवर्ति स्म-पुन:पुनरतिशयेन वाऽवर्तत / या यादृशी तनुः / धृतस्फुटश्रीगृहविग्रहा--धृताः स्फुटानि विकसितानि श्रीगृहाणि कमलान्येव विग्रहः शरीरं यया स तथा। दिवानिशम्-अहोरात्रम् , रात्रिन्दिवमिति यावत् / मृणालाभभुजावलम्बिनी-मृणालयोर्विसयोराभा कान्तिरिवाऽऽभा कान्तिर्ययोस्तौ मृणालाभौ तौ च तौ भुजौ ताववलम्बते समाश्रयति तच्छीला तथा अस्तीति शेषः // 15 // यथान्तिकस्थामरभक्तिवृष्टिभि-जिने धृतध्यानधने त्वऽधर्मणे / नवं सरस्तत्क्षणमप्यभूच्छ्रिया, सरोजिनी यत्प्रभवाऽप्सरायिता // 16 // अन्वयः--अधर्मणे, जिने, धृतध्यानधने, तु, यथान्तिकस्थामरभक्तिवृष्टिभिः, तत्क्षणम् , नवं, मरा, अभूत् , यत्प्रभवा, सरोजिनी, अपि, श्रिया, अप्सरायिता // 16 // ' वृत्तिः-अधर्मणे-नास्ति धर्मो यत्रासौ अधर्मा मोक्षस्तस्मै तथा, तदर्थमिति यावत् / जिने