________________ 264 ] श्रीजननैषधीयमहाकाव्ये भीशान्तिनाथचरित्र वृत्तिा-धर्मनिधेः-धर्माः-सुकृतानि निधीयन्तेऽत्रेति धर्मनिधिभगवान् शान्तिनाथः, तस्य तथा / “व्याप्यादाधारे" 5 / 3 / 88 / इत्यनेन आधारे 'किः प्रत्ययः / रयानाम्-स्यन्दनानाम् / अपि-समुच्चये / सादिनाम्-हस्त्यश्वाद्यारोहिणाम् / मिथ:-परस्परम् / ध्वजैः-केतनैः / पताकाभिरिति यावत् / मलीमसैः-मलिनैः / रेणुगणैः-धूलिकदम्बकैः / पयोनिधेः-पयांसि जलानि निधीयन्तेऽस्मिन्निति पयोनिधिः समुद्रस्तस्य तथा / अबालशैवाललतापरम्पराः-अबाला महत्यश्च ताः शैवाललता जलनीलीवल्ल्योऽबालशैवाललतास्तासां परम्पराः समूहाः अबालशैवाललतापरम्परास्तास्तथा / सखीकृताः-असख्यः सख्यः कृताः सम्पादिताः सखीकृताः, सदृशीकृताः इति भावः // 10 // बले बलद्वेषिपुरस्सरे चले, हया ध्वजाः शोणरुचः प्रसृत्वराः। .. ध्रुवं दधुर्वाडवहन्यवाडव-स्थितिं त्रिलोकीजनसङ्गमार्णवे // 11 // अन्वयः--बलद्वेषिपुरस्सरे, चले, बले. हयाः, शोणरुचः, प्रसृत्वराः, ध्वजाः, त्रिलोकीजनसङ्गमार्णवे, ध्रुवम् , वाडवहव्यवाडवस्थितिम् , दधुः // 11 // वृत्तिः-चलद्वेषिपुरस्सरे-बलं तदाख्यमसुरविशेषं द्वेष्टि तच्छीलो बलद्वेषी-इन्द्रः स पुरस्सरोऽग्रगामी यस्मिँस्तत् बलद्वेषिपुरस्सरम् तस्मिंस्तथा / चले-चञ्चले / बले-सैन्ये / हयाःअश्वाः / शोणरुचः-शोणाऽरुणा रुक् द्युतिर्येषान्ते शोणरुचः / प्रसृत्वराः-प्रसरणशीलाः / ध्वजाःपताकाः / त्रिलोकीजनसामाणवे-त्रयाणां लोकानां भुवनानां समाहारस्त्रिलोकी, भुवनत्रयम् , तस्या जना लोकास्त्रिलोकीजनास्तेषां सङ्गमः-सम्मिलनस्थानमेव अर्णवः समुद्रः, त्रिलोकीजनसङ्गमार्णवस्तस्मिँस्तथा / ध्रुवम्-निश्चितं यथा स्यात्तथा / वाडवहव्यवाडवस्थितिम्-वाडवहव्यवाट वाडवाग्निस्तस्य अवस्थितिरवस्थानम् , वाडवहव्यबाडवस्थितिस्तास्तथा / दधुः-धारयामासुः // 11 // व्रती बभूव प्रभुराप्य शुक्रजां, चतुर्दशी तां बहुलां च लोचकृत् / कचेषु मत्वेव कषायपावक-स्थितिप्ररोहत्तमभूमधूमताम् // 12 // अन्वयः-प्रभुः, शुक्रजाम् , चतुर्दशीम् , आप्य, व्रती, च, बहुलाम् , ताम् , (आप्य) कचेषु, कषायपावकस्थितिप्ररोहत्तमभूमधूमताम् , मत्वा, इव, लोचकृत् , बभूव // 12 // वृत्तिः-प्रभुः-प्रकर्षण भवतीति प्रभुः स्वामी; ईशितेति यावत् / “शंसंस्वयंविप्राद् मुवो दुः" .