SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 262 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे वृत्तिः-गोरस्य-धवलस्य, शुक्लवर्णस्येति यावत् / इन्दो:-चन्द्रपर्यायत्वात् कर्पूरस्य / व्रजस्य-समूहस्य / च-पुनः / मेचकस्य-श्यामलस्य, कृष्णस्येति यावत् / नाभिजन्मनः-मृगनाभेहरिणतुन्दकुपिकाया जन्मोत्पत्तिर्यस्य तस्य तथा / च-पुनः / (वजस्य-समूहस्य) छलेन-व्याजेन / मनस्विना-प्रशस्तं मनश्चित्तमस्त्यस्येति मनस्वी मनीषी विद्वानिति यावत्, तेन तथा / अन्योन्यसुहृत्क्रियातुरम्-परस्परमित्रक्रियातुरम् ! देवासरमन्त्रभासुरम्-देवासुराणाममरदानवाना मन्त्रा मननत्राणजनकवाक्यविशेषा देवासुरमन्त्रास्तद्वद् भासुरम् देदोप्यमानम् / अत्र श्लोके देवासुरमन्त्रभास्वरत्वात्मकविधेयस्योद्देश्य कवाचकपदाभावात् / पूर्वतिपदं विभिन्नवचनमप्युनुवर्तनीयम् , तथा / पूर्वेतिशेषः / अमानि-ज्ञातम् // 6 // ग्रहीतुरुग्राहयितुः करस्थितं, कुशोदकं तत् सुहिताय चोभयोः। .. नलेन मेने सलिलेऽनिलीनयोः, स्वपावनं जीवनभावनं पुनः // 7 // अन्वयः-ग्रहीतुः, च, उग्राहयितुः, करस्थितम् , ( यत् ) कुशोदकम् , तत् , उभयोः, सुहिताय, नलेन, पुनः, सलिले, निलीनयोः, जीवन भावनम् , स्वपावनम् , मेने // 7 // __ वृत्तिः-ग्रहीतु:-दातुः, सकाशाद्धनमुपादातुः / च-पुनः / उद्ग्राहयितुः-प्रतिपादयितुः, दानशीलस्येति यावत् / करस्थितम्-करयोहस्तयोः स्थितम् करस्थितम् / ( यत् ) कुशोदकम् - कुशा दर्भाश्च उदकानि जलानि चैतेषां समाहारः, कुशोदकम् / तत-दानशीलकरस्थितकुशोदकम् / उभयोः-प्रहीतृप्रतिपादयित्रोः / सहिताय-सुष्ठु हितं कल्याणं सुहितम् तस्मै तथा / नलेन-रलयोरभेदान्नरेण, जनेनेत्यर्थः / पुनः-च / सलिले-जले / निलीनयोः-मग्नयोः, संपृक्तयोरिति यावत् / प्रहीतप्रतिपादयित्रोरिति यावत् / जीवनभावनम्-भाव्यते इति भावनं फलम् , जीवनस्य भावनम् जीवनभावनम् तत्तथा / स्वपावनम्-स्वेन धनेन पावनं पवित्रम् स्वपावनं, तत्तथा / मेनेअवबुधे // 7 // नवं सरश्चोदभवन्महोत्सवे, यथेष्टसृष्टाञ्जलिमृष्टवारिभिः / पराजितोऽभूल्लवणाब्धिर यत-स्त्विषं विमुञ्चन् विधुकालकूटयोः॥८॥ अन्वयः-महोत्सवे, यथेष्टसृष्टाञ्जलिमृष्टवारिभिः, नवम् , सरः, उद्भवत् , अता, विधुकालकूटयोः, विषम् , विमुञ्चन् , लवणाब्धिः, अपि, पराजितः, अभूत् // 8 //
SR No.004339
Book TitleShantinath Charitram
Original Sutra AuthorAmrutsuri
AuthorAbhaydevsuri
PublisherJain Sahitya Vardhak Sabha
Publication Year1965
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy