________________ -आचार्यविजयामृतसूरीश्वरकृतायां विदिनोदिन्या पञ्चमः सर्गः [261 चक्रास्तैर्धता पूर्णा रसा भूर्यत्र स तथा / नदेश:-नदानां बृहनदीनामीशः पतिः स्वामीति यावत्, तथा “श्रीमान्नदनदीपतिः" इति रामायणम् / इवेति शेषः / (लुप्तोपमालङ्कारः) / च-पुनः / धृता वालाङ्करसंचयः-धृताः प्रवालानां विद्रुमाणाम् अकुराणाम् अभिनवोद्रमानां कश्मीरजन्मादीनां सञ्चयाः समूहा यस्मिन् दानदेशे स तथा / यत्-यतः / चय:-राशिः / धृतप्रवालाकुरसञ्चयः-धृताः प्रवालानां पल्लवानाम् अङ्कुराणां जलानां सञ्चया यत्र स तथा / यदनेकार्थ:-'प्रवालो विद्मे वीणादण्डेऽभिनवपल्लवे' इति 'अङ्गरोरोम्णि सलिले रुधिरेऽभिनवोद्रमे' इति च / (यमकम् ) / अयं भावः यथा नदेशः स्थिरचक्रभृद्रसः सदा तथा स दानदेशोऽपि स्थिरचक्रभृद्रसः सदा / पुनश्च यथा नदेशः धृतप्रवालाकुरसञ्चयस्तथैव स चयात्मकः दानदेशः धृतप्रवालाकुरसञ्चयः / अर्थस्तूपरोक्तदिशानुसन्धेय इति // 4 // . महीयसः पङ्कजमण्डलस्य य-श्छलेन लोकाशनयानजन्मनः / समं सिचा संचयनैश्च राजतैः, सुपर्वणां सङ्गममादिशद् भृशम् // 5 // अन्वयः--यः, लोकाशनयानजन्मनः, महीयसः, पङ्कजमण्डलस्य, छलेन, सिचा, च, राजतैः, संचयनः, भृशम् , सुपर्वणाम् , सङ्गमम् , आदिशत् // 1 // वृत्तिः-य:-तडागः / लोकाशनयानजन्मनः-अशनं-भोजनश्च, यानम्-गमनञ्च, अशनयाने, लोकानां जनानामशनयाने, लोकाशनयाने, ताभ्यां जन्मोत्पत्तिर्यस्य तल्लोकाशनयानजन्म तस्य तथा / महीयसः-वृहत्तरस्य। पङ्कजमण्डलस्य-पकात् कर्दमात्, जातमुत्पन्नम् , पङ्कजम् तश्च तन्ममण्डलम्-वृन्दम् , पङ्कजमण्डलम् , तस्य तथा / छलेन-व्याजेन / सिचा-सेकेन वाससा। च-पुनः। राजतैःरजतमयैः / रुप्यप्रचुरैरिति यावत् / संचयनैः-समूहैः / भृशम्-अतिशयं यथा स्यात्तथा / सुपर्वणाम्-सुष्ठु शोभनानि च तानि पर्वाणि महा उत्सवा इति यावत् , सुपर्वाणि तेषां तथा, महोत्सवानाम्, सुष्ठु पर्वोत्सवो येषान्ते सुपर्वाणो देवास्तेषान्तथा / सङ्गमम्-सम्मेलनम् / आदिशत्न्यदर्शयत् // 5 // ... ब्रजस्य चेन्दोमंगनाभिजन्मन-श्छलेन गौरस्य च मेचकस्य च / अमानि देवासुरमन्त्रभासुरं, मनस्विनाऽन्योन्यसुहृक्रियातुरम् // 6 // अन्वयः-गौरस्य, इन्दोः, व्रजस्य, च, मेचकस्य, मृगनाभिजन्मनः, च, (वजस्य) छलेन, मनस्विना, अन्योन्यसुहृक्रियातुरम् , देवासुरमन्त्रभासुरम् , अमानि // 6 //