________________ 260 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र समभीयुषाम्-सामीप्यमुपगतानाम् / मार्गणानाम्-बाणानाम् याचकानाञ्च / गणम्-समूहम् / प्रपद्य-सम्प्राप्य / सद्यः-सपदि, तत्क्षण इति यावत् / न-नहि / अभिमुखीभवेत्-अनभिमुखोऽभिमुखो भवेत् सम्पद्यत अभिमुखीभवेम् / किम्-प्रश्नार्थकमव्ययम् / अपि त्वभिमुखीभवेदेवेति भावः // 2 // दिनाः क्षपा वैष्मितदानतः प्रपा, नृपाज्ञया दित्सुकरैश्चरैवभुः। दरोद्गतैः कोकनदौघकोरकैः, सरित्प्रदेशा इव सङ्गतद्विजाः // 3 // अन्वयः-दरोद्गतः, कोकनदोघकोरका, सङ्गतद्विजा, सरित्प्रदेशाः, इव, नृपाज्ञया, ईप्सितदानतः, चरः, दित्सुकरः, प्रपाः, दिनाः, वा, क्षपाः, बभुः // 3 // वृत्तिः-दरोद्गतैः-ईषदुद्भूतैः / कोकनदौघकोरकैः-कोकनदाना-रक्तोत्पलानामौघाः समूहाः, कोकनदौघास्तेषां कोरका मुकुलानि कलिका वा कोकनदौघकोरकास्तैस्तथा / सङ्गतद्विजाःसङ्गताः सम्मिलिता द्विजाः पक्षिणो येषु ते तथा / सरित्प्रदेशा:-सरितो नद्याः प्रदेशाः प्रान्तभूमयः सरित्प्रदेशाः / इव-यथा / नृपाज्ञया-नृपस्य भगवतः शान्तिनाथस्य, राज्ञः, आज्ञा आदेशो, नृपाला तया तथा / ईप्सितदानतः-ईप्सितानाममिलषिताना, दान-वितरणम् , ईप्सितदानम् तस्मात्तथा / चरैः-चञ्चलैः / दित्सुकरैः-दातुमिच्छन्तीति, दित्सन्ति दित्सन्तीति दित्सवस्तेषां कराः पाणयो दित्सुकरास्तैस्तथा / प्रपोः-पानीयशालारूपाः व्यस्तरूपकमलङ्कारः। दिना:-दिवसाः / वा-समुच्चये। क्षपाः-रात्रयः / बभुः-शुशुभिरे / रूपकोपमयोः संसृष्टिः / “सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः" इति काव्यप्रकाशकारो मम्मटः // 3 // स दानदेशः स्थिरचक्रभृद्रसः, सदा नदेशः स्थिरचक्रभृद्रसः / धृतप्रवालाकुरसंचयश्च यद्, धृतप्रवालाकुरसंचयश्चयः // 4 // अन्वयः-स्थिरचक्रभृद्रसः, सः, दानदेशः, सदा, स्थिरचक्रभृद्रसः, नदेशः, च, धृतप्रवालाकुरसंचयः, यत् , चयः, धृतप्रवालाकुरसंचयः // 4 // वृत्तिः-स्थिरचक्रभृद्रसः-स्थिरो दृढश्चक्रभृतश्चक्रिणः शान्तिनाथस्य, रसोऽनुरागो यस्मिन् स तथा / स:-प्रसिद्धः / दानदेशः-दानस्य वितरणस्य देशः स्थानविशेषस्तथा / दानभूमिरिति यावत् / सदा-सर्वदा / स्थिरचक्रभृद्रस:-स्थिराः-सुनिश्चलाश्चक्राः-कोकात्मजीवविशेषाः, स्थिर