________________ * अथ पञ्चमः सर्गः * तरङ्गिणीरङ्कजुषः स्ववल्लभा, रसा रसानामवशा वशास्त्यजन् / अचीकरच्चक्रधरः प्रदेशनं, यथेष्टमाहूय स तुष्टपूर्जनम् // 1 // अन्वयः-अङ्कजुषः, स्ववल्लभाः, तरङ्गिणी:, रसानाम् , अवशाः, वशाः, रसाः, त्यजन्, सः, चक्रधरः, तुष्टपूर्जनम् , आहूय, यथेष्टम् , प्रदेशनम् , अचीकरत् // 1 // वृत्तिः-अङ्कजुषः-अकं मध्यस्थानम् , उत्सङ्गञ्च जुषन्ते-सेवन्ते, इत्यङ्कजुषस्तास्तथा / स्ववल्लभाः-निजप्रियाः इवेति शेषः, तथाच-लुप्तोपमालङ्कारः / तरङ्गिणी:-शैवलिनीः, नदीरिति यावत् / (च-पुनः। ) रसानाम्-शृङ्गारादीनां जलानाञ्च / अवशाः-अनायत्ताः, तेषामेव तदायत्तत्वात् / वशा: वनिताः / इवेति शेषः / (लुप्तोपमालङ्कारः) / रसाः-भुवः / पृथिवीरिति शेषः / त्यजन्-विजहत्, मुञ्चन्निति यावत् / सः-प्रसिद्धः / चक्रधरः-चक्री, भगवाञ्छान्तिनाथ इति यावद / तुष्टपूर्जनम्-पुरो नगरस्य जनः पूजनः तुष्टः सन्तुष्टश्चासौ पूर्जनस्तुष्टपूर्जनो नागरिकलोकस्तन्तथा / आहूय-आकार्य / यथेष्टम्-निकामम्, पर्याप्तमिति यावत् / प्रदेशनम्-उपदेशम् मोक्षौपयिकदेशनमिति यावत् / अचीकरत-अकार्षीत् / चौरादिकस्य णिचः स्वार्थिकस्य प्रयोगः / "दशवर्षसहस्राणि रामो राज्यकरत्" इति महाकविवाल्मीकिप्रयोगात् / प्रवर्धमानाः समितिक्रियाम्बुधौ, तरङ्गलेखा बिभरां बभूव यः / स मार्गणानां समभीयुषां गणं, प्रपद्य सद्योऽभिमुखीभवेन किम् ? // 2 // अन्वयः--यः, समितिक्रियाम्बुधौ, प्रवर्धमानाः, तरङ्गलेखाः, बिभराम्बभूव, सः, समभीयुषाम् , मार्गणानाम् , गणम्, प्रपद्य, सद्यः, न, अभिमुखीभवेत् , किम् ? // 2 // . वृत्तिः--य-यादृशो भगवाञ्छान्तिनाथः / समितिक्रियाम्बुधौ-समितियुद्धम् , यतिचा च, तस्याः क्रिया-आचरणम्, समितिक्रिया सैव अम्बुधि समुद्रः समितिक्रियाम्बुधिस्तस्मिंस्तथा / "मयूरव्यंसकेत्यादयः" 3 / 1 / 116 // इत्यनेन रूपकसमासः / प्रवर्धमाना:-प्रकर्षेणोपचयमादधानाः / तरङ्गलेखा:-तरङ्गमालाः / बिभराम्बभूव-धारयामास / सः तादृशो भगवाँश्चक्रो