________________ 258 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाषचरित्र तस्मिन् विस्मयकृतकाव्ये, तुर्यः सर्गोऽभवत्तराम् / प्राप्नोतु शिष्टाचरणात् , प्रतिष्ठामप्यनुत्तराम् // 78 // . अन्वयः--तस्मिन् , विस्मयकृत् काव्ये, तुर्यः, सर्गः, अभवत्तराम् , शिष्टाचरणात् , अनुत्तराम, प्रतिष्ठाम्, अपि, प्राप्नोतु // 78 // . वृत्तिः-तस्मिन्-शान्तिनाथचरितात्मके / विस्मयकृत्काव्य-कवेः कवितानिर्माणचारुचातुरीकस्य भावः कर्म वा काव्यम् / विस्मयमाश्चयं करोतीति विस्मयत्कृत् काव्यम् तस्मिंस्तथा। तुर्य्य:चतुर्थः / सर्गः-अध्यायः / अभवत्तराम्-समपद्यततरामित्यर्थः / “किंत्याद्येऽव्ययादसत्त्वे तयोरन्तस्याऽऽम्” 7 / 3 / 8 // इत्यनेन तरपोऽन्तस्याऽऽम् / शिष्टाचरणात्-शिष्टैः सज्जनैः सदसद्विवेकशालिभिरिति यावत् , आचरणम् विधानम् शिष्टाचरणम् , तस्मात्तथा / अनुचराम-लोकोत्तराम् / प्रतिष्ठाम्-आस्पदम् / स्थितिं वा / अपि-सम्भावनायाम् / प्राप्नोतु-अधिगच्छतु // // इति वाचकप्रवरश्रीमेघविजयजिदगणिराजविरचिते श्रीनैषधीयमहाकाव्यप्रथमसर्गपादपूर्तिस्वरूपे श्रीशान्तिनाथचरित्रे शासनसम्राट-सूरिचक्रचक्रवर्ति-तपागच्छाधिपति-भट्टारकाचार्य-महाराजाधिराजश्रीविजयनेमिसूरीश्वर-महाराजपट्टालङ्कार शास्त्रविशारद कविरत्न पीयूषपाणि पूज्यपादाचार्यमहाराज श्रीविजयामृतसूरीश्वर-विरचित-विद्वद्विनोदिनीनामवृत्तिविभूषिते-- // चतुर्थः सर्गः समाप्तः॥