________________ -आचार्यविषयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्या चतुर्थः सर्गः [ 257 ध्वनिहसः शिक्षितोऽभ्यस्तो यत्र वा स कलहंसशिक्षितस्तन्तथा / अमुम्-विप्रकृष्टतया निर्दिश्यमानम् / सरोवरमिति शेषः / विभावये-चिन्तयामि / यः-यादृशस्तडागः / पदे पदे-स्थाने स्थाने / अमृणालशेषाहिभुवा-मृणा हिंसा च आलं मिथ्या च मृणाले न मृणाले यस्य सोऽमृणालः, शेषाहिः शेषनागो भूः स्थानं यस्य स शेषाहिभूः, अमृणालश्चाचौ शेषाहिभूरमृणालशेषाहिभूस्तेन तथा / प्रयोगकर्ता-सूत्रकारकेण / विधुना-चन्द्रनाम्ना / अन्वयायि-अनुगतः // 76 // (पाठान्तरम् ) इति स्वचित्ते स विभाव्य भव्यधीः, प्रभुर्मुमुक्षुर्भवतो ययौ वनम् / जनेन चक्रेण च भूतलस्पृशाऽ-मृणालशेषाहिभुवाऽन्वयायि यः // 76 // अन्वयः--भव्यधीः, मुमुक्षु :, सः, प्रभुः, इति, स्वचित्ते, विभाव्य, भवतः, वनम् , ययौ, यः, जनेन, भूतलस्पृशा, अमृणालशेषाहिभुवा, चक्रेण, अन्वयायि // 76 // . वृत्तिः-भव्यधी:-भवति सम्पद्यते मोक्षायेति भव्या तादृशी धीर्बुद्धिर्ज्ञानमिति यावद्यस्य स तथा / मुमुक्षुः-मोक्षगमनेच्छुः / सः-प्रसिद्धः / प्रभुः-विभुः, ईश्वर इति यावत् / शान्तिनाथ इति यावत् / इति-अन्ते, समाप्ताविति यावत् / स्वचित्ते-स्वीयान्तःकरणे / विभाव्य-विचिन्त्य भावयित्वेति यावत् / भवतः-संसारात्, भवं संसारं परित्यज्येति वा भवात् =क्षेमादिति वा / “गम्ययपः कर्माऽऽधारे” 2 / 2 / 74 / / इति सूत्रेग कर्मवाचिनः पञ्चमी / 'भवः क्षेमेशसंसारे' इति मेदिनी / वनम्-तपस्यासाधनं काननम् / ययौ-गतवान् / य:-भगवान् शान्तिनाथः / जनेनप्रजालोकेन / च-पुनः / भूतलस्पृशा-भूतलं स्पृशति इति भूतलस्पृक् तेन तथा / अमृणालशेषाहिमुवा-अमृणालो महाजनः शेषः क्षत्रियादिः अहिभूः-विप्राधिकारी यत्र तेन तथा / चक्रेणचक्रमस्त्रविशेषोऽस्त्यस्येति चक्रः / “अभ्रादिभ्यः” 7 / 2 / 46 // इत्यनेन मत्वर्थे 'अ' प्रत्ययः / विष्णुनेति यावत् / अन्वयायि–अनुगतः, अनुसृत इति यावत् // 76 / / गच्छाधीश्वरहीरहीरविजयाम्नाये निकाये धियां, भृत्यः श्रीविजयप्रभाख्य-सुगुरोः श्रीमत्पाख्ये गणे / शिष्यः प्राज्ञमणेः कृपादिविजयस्याशास्यमानाग्रणी श्चक्रे वाचकनाममेघविजयः शस्यां समस्यामिमाम् // 77 // [व्याख्यातपूर्वोऽयं श्लोकः ]