________________ 256 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनापत्ति यथा / न:-अस्मान् / प्रबोधयति-मोहनिद्रातो जागरयति // 5 // ( पाठान्तरम् ) जगचिरं जीवयता रसार्पणै-विरागता हंसविलासभाविता / सरोजिनीस्तम्बकदम्बकैतवात् , कृतामुना मे स्वरसानुषङ्गिणा // 5 // अन्वयः-रसार्पणः, जगत् , चिरम् , जीवयता, स्वरसानुषङ्गिणा, अमुना, सरोजिनीस्तम्बकदम्ब कैतवात् , मे, विरागता, हंसविलासभाविता, कृता // 7 // ___वृत्तिः–रसार्पण?-रसस्य शृङ्गारादेर्मधुरादेवीर्य्यस्यानुरागस्य वा अर्पणानि-समर्पणानि, प्रतिपादनानीति यावत् रसार्पणानि तैस्तथा / जगत-भुवनम् / चिरम्-दीर्घकालम् यावदिति शेषः / जीवयता-सरसत्वं सचेतनस्वं वा प्रापयतेत्यर्थः / स्वरसानुषङ्गिणा-स्वरसेन-निजामिप्रायेण अनुपाः सम्बन्धः स्वरसानुषङ्गः सोऽम्त्यस्येति स्वरसानुषङ्गी तेन तथा / स्वतन्त्रेणेति भावः / अमुनाभगवता शान्तिनाथेनेति यावत् / सरोजिनीस्तम्बकदम्बकैतवाद-सरोजिनी कमलिनी तस्याः स्तम्बकदम्बो गुल्मसमूहः सरोजिनीस्तम्बकदम्बस्तस्य कैतवं-ज्याजः सरोजिनीस्तम्बकदम्बकैतवम्, तस्माचथा / मे-मम / विरागता-विषु-पक्षिषु रोगोऽनुरागो यस्य स विरागस्तस्य भावो विरागता / पक्षे-विगतो रागोऽनुरागो मात्सर्य वा यस्मात् स विरागस्तस्य भावस्तथा, विरक्तता, वैराग्यमिति यावत् / हंसविलासमाविता-हंसो जीवस्तस्य विलासो यत्र स हंसविलासः परमात्मा, के भावयति चिन्तयतीति हंसविलासभावी तस्य भावस्तथा बाभ्यात्मविचार इति यावत् / कताविहिता // 7 // प्रभासित वा समयज्ञमुज्ज्वल, विभावयेऽमुं कलहंसशिक्षितम् / प्रयोगकर्ता विधुना पदे पदे-ऽमृणालशेषाहिभुवान्वयायि यः // 6 // अन्वयः-प्रभासितम्, वा, समयज्ञम् , उज्ज्वलम् , कलहंसशिक्षितम् , अमुम्, विभावये, या, पदे पदे, अमृणालशेषाहिमुवा, प्रयोगकर्ता, विधुना, अन्वयायि // 6 // पुतिः-प्रभासितम्-प्रभा बुद्धिः प्रकाशो वा तया सितः शुक्ल प्रभासितस्तन्तथा / वासमुच्चये / समयज्ञम्-समः समग्रः यज्ञः पूजाविधिर्यस्मात् स समयमः बन्तथा / समयं कालं भूतमविष्यद्वर्तमानादिकं जानातीति समयजस्तन्तथा वा / उन्ज्वलम्-बीमम् , विशदमिति यावत् / कलहंसशिक्षितम्-कलहंसाः कदम्बाः शिक्षिता निपुणा पत्र स कलहंसशिक्षितः। फलोऽव्यक्तमधुर