________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां चतुर्थः सर्गः [ 255 वृत्तिः-शिलीमुखस्तोमसखेन-शिलीमुखानां बाणानाम् स्तोमः समूहः शिलीमुखस्तोमः तस्य सखा मित्रम् शिलीमुखस्तोमसखः तेन तथा / “राजन्सखे" 7 / 3 / १०६॥इत्यनेन समासान्तो 'ऽट्' प्रत्ययः / शाङ्गिणा-शाङ्गम् धनुस्तदस्त्यस्येति शाणी तेन तथा / धनुर्धरेणेति यावत् / मया-मल्लमणेन जनेन / धर्मेण-सुकृतेन, पुण्येनेति यावत् / जगज्जयः-जगतां भुवनानां जयो विजयो जगज्जयः अकारि-व्यधायि / कृत इति यावत् / यद्वा-“शिलीमुखस्तोमसखेन" इति शिली-मुखस्तोमसखेन इति पदद्वयम् / तत्र शिलीति जगज्जयस्य विशेषणवाचकम् ; "शिलीमुखस्तोमसखेन" इति च धर्मेणेतिपदेन समानविभक्तिकम् , धर्मविशेषणवाचकम् एवञ्च शिलाः पाषाणाः सन्त्यस्येति शिली पर्वतः, शिलीव शिली लुप्तोपमा / महान् दष्करः, गुरुर्वा जगज्जय इति भावः / मुखे प्रारम्भे स्तोमो यज्ञः पूजा, सखा मित्रं यस्य स मुखस्तोमसखस्तेन तथा / अथवा-धर्मविशेषणतया शिलीमुखस्तोमसखेन इत्यखण्डम् , शिली जलौकाः तत्प्रमुखाणां स्तोमः समूहः शिलीमुखस्तोमस्तस्य सखा मित्रमिव सखा शिलीमुखस्तोमसखस्तेन तथा / स्वत एव-स्वयमेव / माम्-मल्लक्षणं जनम् / भजन-आश्रयन् / चापराग:धनूरागः। किम्-प्रश्नार्थकमव्ययम् / परागसः-परमतिशयितमागोऽपराधो येषान्ते परागसस्ताँस्तथा। परमापराधिनः शत्रूनिति यावत् / विभागम्-विभङ्गम् , धातूनामनेकार्थत्वात् , पराजयमिति यावत् / न-नहि / आनयेत-प्रापयेत् ? अपि तु प्रापयेदेवेति भावः / पक्षे स्वत एव मा भजन अपरागः / स:-धर्मः / परागस:-परमतिशयितमागः पापं येषान्ते परागसः पापास्ताँस्तथा / किम्-प्रश्नार्थकमव्ययम् / विभागम्-विगता मा दीप्तिर्यत्र तद् विभम् , नरकन्तस्य अगो वृक्षः शाल्मलिविभागस्तन्तथा। न, नयेदिति काकु 174...... . .. ... . प्रवोधयत्येष तडागबान्धवः, कृताधिकौशाञ्जलिपद्मपाणिभिः।। सरोजिनीस्तम्बकदम्बकैतवात्, श्रियश्चलत्वं निगदनिवेह नः // 7 // अन्वयः--एषः, तडागबान्धवः, इह, कृताधिकोशांजलिपद्मपाणिभिः, सरोजिनीस्तम्बकदम्बकैतवात् , श्रिया, चलत्वम् , निगदन् , इव, ना, प्रबोधयति // 5 // .. वृत्तिः-एषः-पुरोपकण्ठवर्तमानत्वेन सन्निकृष्टतया निर्दिश्यमानः / तडागबान्धवः-तडागः कासारो बान्धवः स्वजन इवेति" तडागबान्धवः, “उपमेयं व्याघ्राद्यैः साम्यानुक्तौ” 3 / 1 / 102 / / इत्यनेनोपमितसमासः / इह-अत्र / कृताधिकोशाञ्जलिपद्मपाणिभिः-विहिताधिकुड्मलाञ्जलिकमलकरैः / सरोजिनीस्तम्बकदंघकैतवाद-सरोजिनी कमलिनी तस्याः स्तम्बकदम्बो. गुल्मसमूहा सरोजिनीस्तम्बकदम्बस्तस्य कैववम् व्याजः सरोजिनीस्तम्बकदम्बकैतवम् तस्मात्तथा / श्रियःलाया। चलत्वम्-चलत्वम् , नैयरमेनैववावस्थानाभाषमिति यावत् / निगदन्-वक्न् / इव