________________ 254 / भोजननैषधीयमहाकाव्ये श्रीशान्तिनावपरित्रे भिता सेविता प्रतिबिम्बिताश्रिता / रसभासुरानना-रसः शृङ्गारादिभिरनुरागैर्वा भासुरं देदीप्यमानमाननं वदनम् यस्या सा तथा / नृपस्य-राज्ञः, शान्तिनाथस्येति यावत् / सा-प्रसिद्धा / सभा-परिषद् , समाज इति यावत् / अभाव-अदीप्यत, व्यराजतेति यावत् / यया-सभया / (करणेन)तडांग:-कासारः। अभ्रजयार्थम्-अभ्रजयाय-मेघविजयायेदम् अभ्रजयार्थम् तद्यथास्यात्तथा। "तदर्थाऽर्थेन" 3 / 1 / 72 // . इत्यनेन समासः / सुर्धाशो:-चन्द्रस्य / बहुलम्-प्राज्यम् / प्रचुरमिति यावत् / कुलम्-सजातीयगणम् / वहन्-धारयन् / इव-यथा / ओर्जिजत्-ऊर्जितवान (उत्प्रेक्षालङ्कारः) / 'सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् इति' मम्मटः // 72 // रथाङ्गभाजा कमलानुषङ्गिणा, सरस्तदालोक्य स-सार-सं-गतम् / क्षणाद् गणागाहननीरसं गतं, दधे मनोऽन्तर्भवनीरसङ्गतम् // 73 // अन्वयः-कमलानुषङ्गिणा, रथाङ्गभाजा, (तेन) ससार-सङ्गतम् , क्षणात् , गणागाहननीरसंगतम् , तत्, सरः, आलोक्य, अन्तर्भवनीरसङ्गतम् , मवः, दधे // 73 // वृत्तिः-कमलानुषङ्गिणा-कमला लक्ष्मीः, कमलमुत्पलम् , तया तेन च सह अनुषङ्गः सम्बन्धः कमलानुषङ्गः सोऽस्यास्तीति कमलानुषको तेन तथा / रथाङ्गमाजा-रथानं चक्रं भजतीति रथाङ्गमाक् तेन तथा / चक्रिणा तेन भगवता शान्तिनाथेनेति शेषः / ससारसङ्गतम्-सारं श्रेष्ठ तत् सङ्गतम् मिलितम् सारसङ्गतम् तेन सहितं तथा / सारसेन हंसेन सहितं ससारसम् भावप्रधाननिर्देशतया ससारसतामित्यर्थः / गतं प्राप्तमिति वा / चणात्-उत्सवाद, उद्धर्षादिति यावत् / गणागाहननीरसंगतम्-गणस्य लोककदम्बकस्य आगाहनम्-सर्वतोभावेनावगाहनम् गणागाहनम् , तेन नीरसम्-भावप्रधाननिर्देशानिरसत्वम् , गणागाहननीरसम् , तत्-गतं प्राप्तम् / तत्-वर्णितमहिमप्रसिद्धम् / सर:कासारम् / आलोक्य-विलोक्य, दृष्ट्वेति यावत् / अन्तर्भवनीरसङ्गतम्-हृदयमध्यसमुत्पन्नजलसम्मिश्रमित्यर्थः / मनः-हृदयम् / दधे-धृतम् // 73 // अकारि धर्मेण जगज्जयो मया, शिली-मुखस्तोमसखेन शार्जिणा / ..स चापरागः स्वत एव मांभजन, परागसः किन्न विभागमानयेत् // 74 // अन्वयः-शिलीमुखस्तोमसखेन, शाङ्गिणा, मया, धर्मेण, जगज्जयः, अकारि, स्वतः, रथ, 'भान , भवम् , अपरागः, किम् , वी; विभागम् , म, माम्यहा / / 74