________________ जाचार्यविजयामृतसूरीश्वरकृतायां विदिनोदिन्या चतुर्थः सर्गः / [ 253 इत्यमरः / विकस्वरेन्दीवरचारुनेत्रमृत-विकस्वरं प्रस्फुटितब्च तदिन्दीवर-कमलम् नीलकमलमिति यावत् , विकस्वरेन्दीवरम् , तदेव, चारुनेत्रम्-शोभननयनम् विकस्वरेन्दीवरचारुनेत्रम् , जातावेकव- . चनम् , तद्विभर्ति धारयति तथा / स्वनाथदर्शिक्षितिकामिनीमुखम्-क्षितिः पृथिव्येव कामिनीरमणी, क्षितिः पृथिवी कामिनीव वा क्षितिकामिनी, स्वनाथं निजस्वामिनं पश्यति तच्छीला स्वनाथदर्शिनी सा चासो क्षितिकामिनी स्वनाथदर्शिक्षितिकामिनी, कर्मधारयसमासः / "पुंवत् कर्मधारये" 'इत्यनेन पुंवद्भावश्च / तस्या मुखम् वदनम् तथा / बमौ-शुशुभे // 70 // सकर्णिकं तत्र ललद्वधूमुखं, सपत्रलेखं कृतपद्मसौहृदम् / तमासमच्छायकलङ्कसङ्कुल, निरीक्ष्य चक्रे स्वमहर्निशं शशी // 71 // अन्वयः--तत्र, कृतफल्मसौहृदम् , सकर्णिकम् , सपत्रलेखम् , ललत् , बधूमुखम् , निरीक्ष्य, शशी, अहर्निशम् , स्वम् , तमःसमच्छायकलङ्कसङ्कुलम् , चक्रे // 71 // ___ वृत्तिः-तत्र-तस्मिंस्तटाके / कृतपद्मसौहृदम्-कृतं विहितम् पद्मः कमलैः, सौहृदम्-सख्यं येन तत् कृतपद्मसौहृद्म, तत्तथा / सकर्णिकम्-कर्णिकया कर्णालङ्कारेण सहितम् सकर्णिकम् तत्तथा। सपत्रलेखम्-पत्रलेखेन रचनाविशेषेण सहितम् , सपत्रलेखम् तत्तथा / ललत्-विलासमादधद / बधुमुखम्-वध्वा वनिताया मुखौ वंदनम् बधूमुखम् / निरीक्ष्य-अवलोक्य / शशी-शशो मृगो लान्छनत्वेनास्त्यस्येति शशी चन्द्रः, “अतोऽनेकस्वरात्" 7 / 2 / 6 // इत्येन मत्वर्थे 'इन्' प्रत्ययः / अहर्निशम्-रात्रिन्दिवम् / स्वम्-आत्मानम् / तमासमण्छायकलङ्कसङ्कुलम्-तमसा ध्वान्तेन समा तुल्या छाया दीप्तिः कान्तिा यस्य स तमःसमच्छायः स चासौ कलको गुरुतल्पगमनापवादः, तमःसमच्छायकलङ्कस्तेन सङ्कुलो व्याप्तस्तमासमच्छायककलङ्कसकुलस्तन्तथा / चक्रे-कृतवान् / उपमेयत. या लोकप्रसिद्ध वधूमुखे कृतपद्मसौहृदत्वादिनाऽऽधिक्यवर्णनाद्व्यतिरेकालङ्कारः। “उपमानाद्यदन्यस्य व्यतिरेक स एव सः" इति काव्यप्रकाशः // 71 / / अभात् सभा सा रसभासुरानना, नृपस्य नीरे प्रतिबिम्बिताश्रिता। यया तडागोऽभ्रजयार्थमोजिज, कुलं सुधांशोर्बहुलं वहन्निव // 72 // ... अन्वयः-नीरे, प्रतिबिम्बिताश्रिता, रसभासुरानना, नृपस्य, सा, सभा, अभात् , यया, तडागा, अभजयार्थम् , सुधांशो', बहुलम् , कुलम् , वहन् , इव, और्जिजत् // 72 // / ... पति:-नीरे-सलिले / तामस्मेति शेषः प्रतिविम्पियाश्रिता-प्रविबिम्बितं प्रतिफलितमा