________________ ___252 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र तीम् / श्रयन्-आश्रयन् / इव-यथा / (यः-तड़ागः) च-पुनः / आशये-तोयाधारे / मथितेविलोडिते / अपि-सम्भावनायाम् / विडोजसे-वेवेष्टि व्याप्नोतीति बिड् व्यापकमोजो बलं यस्य स बिडोजा इन्द्रस्तस्मै तथा / एकम-एकत्वसंख्याविशिष्टम् / उच्चैःश्रवसम्-तदाख्यसमुद्रमथनोद्भूतमश्वरत्नम् / प्रकाशयन्तम्-प्रकटयन्तम् / प्रतिपादयन्तमिति यावत् / तम्-प्रसिद्धम् / वार्धिम्जलनिधिम् / जिगाय-जितवान अधरीचकारेति यावत् / तस्य एकोच्चैःश्रवोवत्त्वादात्मनश्च सहस्रसङ्ख्याकोच्चैःश्रवोवत्त्वादिति भावः // 68 / / सिताम्बुजानां निवहस्य यश्छलात-पयोनिधेः पारगतं यशोभरम् / न्यवेदयत् पारगतस्य किन्नरैः, प्रगीयमानं लसदङ्गमानसैः // 69 // अन्वयः-यः, सिताम्बुजानाम् , निवहस्य, छलात् , लसदङ्गमानसः, किन्नरः, प्रगीयमानम् , पयोनिधेः, पारगतम् , पारगतस्य, यशोभरम् , न्यवेदयत् // 69 // वृत्तिः-य:-तड़ागः / सिताम्बुजानाम्-सितानि श्वेतानि च तान्यम्बुजानि कमलानि सिताम्बुजानि, तेषां तथा / निवहस्य-समूहस्य, कदम्बकस्येति यावत् / छलात-व्याजात् / लसदअमानसैः-अङ्गं शरीरश्च मानसमन्तःकरणञ्च अङ्गमानसे येषान्ते लसदङ्गमानसास्तैस्तथा / किन्नरैःदेवयोनिविशेषैः / प्रगीयमानम्-प्रकर्षण गीयमानम् / पयोनिधेः-समुद्रस्य / पारगतम्-अपरतटमधिगतम् / पारगतस्य-संसारस्य प्रयोजनजातस्य वा पारं पय॑न्तभागं गतः पारगतः, परमेष्ठी जिन इति यावत् , तस्य तथा। यशोभरम-यशसः कीर्तेभरोऽतिशयो यशोभरस्तन्तथा / न्यवेदयत्-व्यज्ञापयत् व्यस्तारयत् इति यावत् // 69 / / सरोरुहां तत्र च खण्डमण्डनं, बभावलिश्यामलितोदरश्रियाम् / स्वनाथदर्शिक्षितिकामिनीमुखं, विकस्वरेन्दीवरचारुनेत्रभृत् // 7 // अन्वयः--च, तत्र, अलिश्यामलितोदर श्रियाम् , सरोरुहाम् , खण्डमण्डनम् , विकस्वरेन्दीवरचारुनेत्रभृत् , स्वनाथदर्शिक्षितिकामिनीमुखम् , बभौ // 7 // वृत्तिः-च-पुनः / तत्र-तस्मिंस्तटाके / अलिश्यामलितोदरश्रियाम्-अलिभिर्धमरैः श्यामलिता श्यामलीकृता उदरश्रीमध्यशोभा येषां तानि अलिश्यामलितोदरश्रीणि तेषान्तथा / सरोरुहाणाम्कमलानाम् / खण्डमन्डनम्-खण्डं-विसाजाघेव मण्डनमाभरणं यस्य तत्तथा / 'खण्डोऽसीविसमब्जादि'