________________ -पाचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां चतुर्थः सर्गः [251 माने / पटालये-पटैवस्त्रनिर्मितः पटनिर्मितः, स चासावालयो निलयो गृहमिति यावत् , पटालयः"मयूरव्यंसकेत्यादयः” 3 / 1 / 116 / / इत्यनेन शाकपार्थिवादेराकृतिगणत्वान्मध्यमपदलोपी समासः तस्मिंस्तथा / स्थिते इति शेषः / क्षितिपे-क्षितिं पृथिवीं पाति रक्षतीति क्षितिपो राजा, शान्तिनाथ इति यावत् तस्मिंस्तथा / स्फुटानुबिम्बोदयचुम्बनेन-स्फुटः प्रकटश्चासावनुबिम्बोदयः प्रतिबिम्बोदयः स्फुटानुबिम्बोदयस्तस्य चुम्बनम् संयोगः स्फुटानु बिम्बोदयचुम्बनम् तेन तथा / अप्सरसाम्-उर्वशीप्रमुख. स्वर्वेश्यानाम् / प्रभोः-स्वामिनः / इन्द्रस्येत्यर्थः / सभाम्-परिषदम् / स्फुटीचकार-अस्फुटामप्रकटां स्फुटा चकार कृतवान् तथा // 66 // जलान्तरुन्मज्जदनेककामिनी-मनोऽनुषङ्गात्तरलैरिवामलेः / बभौ चलद्वीचिकशान्तशातनै-हयानुबिम्बैरविलम्बमेव सः // 67 // अन्वयः-सः, जलान्तरुन्मज्जदनेककामिनीमनोऽनुसङ्गात् , इव, तरलैः, अमलैः, चलवीचिकशान्तशातन, हयानुबिम्बै, अविलम्बम् , एव, बभौ // 67 // वृत्ति:--सः-पुरोपकण्ठस्थितो वर्णितप्रकारविशेषस्तटाकः / जलान्तरुन्मज्जदनेककामिनीमनोऽनुषङ्गाव-अनेका बह्वयश्च ताः कामिन्यो वामलोचनाः रमण्य इति यावत् , अनेककामिन्यः, जलान्तरुन्मज्जन्त्यः, सलिलान्तरवगाहमानाश्च ता अनेककामिन्यो जलान्तरुन्मज्जदनेककामिन्यस्तासां मनोऽनुषङ्गः चेतःसम्पर्को जलान्तरुन्मज्जदनेककामिनीमनोऽनुषङ्गस्तस्मात्तथा / इव-यथा / तरलै:चञ्चलः / अमलैः-स्वच्छैः, विशुद्धैरिति यावत् / चलद्वीचिकशान्तशातनैः-चलन्त्यश्चञ्चलाश्च ता बीचयस्तरङ्गाः स्वल्पतरङ्गा वा चलद्वीचयस्ता एव कशा अश्वताडन्यश्चलद्वीचिकशास्तदन्तैस्तत्प्रातभागैः शातनं ताडनं येषु तैस्तथा / हयानुबिम्बैः-तुरङ्गमप्रतिबिम्बैः / अबिलम्बम्-सत्वरं यथास्यात्तथा / एव-अवधारणार्थकमव्ययम् / बभौ-शुशुभे // 67 // तमेकमुचैःश्रवसं बिडोजसे, प्रकाशयन्तं मथितेऽपि चाशये / जिगाय वा ितुरगानुबिम्बितैः, सहस्रमुच्चैःश्रवसामिव श्रयन् // 6 // अन्वयः--तुरगानुविम्वितः, उच्चैःश्रवसाम् , सहस्रम् , श्रयन् , इव, (यः) चः, आशये, मथिते, अपि, विडोजसे, एकम् , उच्चेःश्रवसम् , प्रकाशयन्तम् , तम् , वाधिम् , जिगाय // 6 // वृत्ति:-तुरगानुबिम्बितैः-तुरगाणामश्वानाम् , अनुबिम्वितानि प्रतिफलिताति तुरगानुबिम्बिगानि तैस्तथा / उच्चैःश्रवसाम्-तदभिधानाश्वरत्नानां समुद्रोत्पन्नानामिति यावत् / सहस्रम्-दशश--