________________ 250 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे प्रफलिताश्च ता उडवो नक्षत्राणि प्रतिबिम्बितोडवस्ताभिस्तथा / कृत्वेति शेषः / अवतारम्-अवतरत्वम् / आप्ते-समधिगते / सरोरुहे कमले / मृणालजालस्य-बिसकदम्बकस्य / मिषा-व्याजात् छलादिति यावत् / यः-तडागः / सौरभचौरबंधनम-सौरभस्य सुगन्धस्य चौराः स्तेनाः, अपहारका इति यावत्, सौरभचौरास्तेभ्यो बन्धनम-बध्यते संयम्यतेऽनेनेति बन्धनम् / रज्ज्वात्मकम् , सौरभचौरबन्धनम् / बभार-धारयामास / नेदं मृणालजालमपि तु कमलसौरभापहारकस्तेनबन्धनार्य रज्जुविशेष इत्यपह्न त्यलङ्कारः / / 64 // तटान्तविश्रान्ततुरङ्गमच्छटा-स्तटाक एष प्रतिबिम्बितैर्दधौ। अमन्दनन्दी सरसो जिगीषया, चलाचलोत्तुङ्गतरङ्गसङ्गमैः // 65 // अन्वयः--अमन्दनन्दी, एषः, तटाकः, चलाचलोत्तुङ्गतरङ्ग सङ्गमः, सरसः, जिगीषया, प्रतिबिम्बितेः, (कृत्ता) तटान्तविश्रान्ततुरङ्गमच्छटाः, दधौ // 65 // वृत्तिः-अमन्दनन्दी-अमन्दमत्यन्तं नन्दयति प्रसादयति जनान् , तच्छीलस्तथा / एषःप्रत्यक्षं दृश्यमानस्तटाकः कासारः ! चलाचलोचङ्गतरङ्गसङ्गमैः-चलाचलाश्चञ्चलाश्च त उत्तुङ्गा उन्नताश्चलाचलोत्तुङ्गास्ते च ते तरङ्गाः वीचयो भङ्गा वा चलाचलोत्तुङ्गतरङ्गास्तैः सङ्गमाः सम्पर्काश्वलाचलोक्तुङ्गतरङ्गसङ्गमास्तैस्तथा / सरसः-कासारस्य / जिगीषया-जेतुमिच्छा जिगीषा, तया तथा। प्रतिबिम्बितैः-प्रतिफलितैः / ( कृत्वेति शेषः) / तटान्तविश्रान्ततुरङ्गमच्छटा:-तटान्ते तीरप्रान्ते विश्रान्ता विश्रान्तिमुपगताः स्थिता इति यावत्, तटान्तविश्रान्तास्ते च ते तुरङ्गमास्तुरगा हया इति यावत् , तटान्त विश्रान्ततुरङ्गमास्तेषां छटाः कदम्बकानि तटान्तविश्रान्ततुरङ्गमच्छदास्तथा / दधौधारयामास // 65 // पिनाकिनाकिप्रभुराजराजिभिः, समं तटस्थे क्षितिपे पटालये / स्फुटानुबिम्बोदय चुम्बनेन यः, स्फुटीचकाराप्सरसां प्रभोः सभाम् // 66 // अन्वयः-या, पिनाकिनाकिप्रभुराजराजिभिः, समम् , तटस्थे, पटालये, (स्थिते) क्षितिपे, स्फुटानुबिम्बोदयचुम्बनेन, अप्सरसाम्, भोः, सभाम् , स्फुटीचकार // 66 // वृत्तिः-य:-तटाकः। पिनाकिनाकिप्रभुराजराजिभिः-पिनाकी शङ्करश्च नाकिनः स्वर्गिणश्च प्रभवः स्वामिनश्च राजानो नृपतयश्च पिनाकिनाकिप्रभुराजानस्तेषां राजयः श्रेणयः कदम्बकानीति यावत् / पिनाकिनाकिप्रभुराजराजयस्तासां तथा / समम्-सह / तटस्थे-तीरप्रान्तविराज