________________ -आचार्यविषयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्या चतुर्थः सर्गः [249 मदान्धा मदमत्ताः सद्भिन्नमदान्धाः ते च ते सिन्धुराः सामयोनयो मतङ्गजा इति यावत् , सद्भिन्नमदान्धसिन्धुरास्तेषां रदा दन्ता सद्भिन्नमदान्धसिन्धुररदास्ताँस्तथा / निरीक्ष्य-समवलोक्य / नु-वितर्के / जिनसेवया-जिनस्य कृर्थकृतः सेवा शुश्रूषा जिनसेवा तया तथा / हेत्वर्थे तृतीया तथा च जिनसेवानिमित्तमिति यावत् / समापतन्तीम्-समागच्छन्तीम् / भोगिनाम्-सर्पाणाम् , नागानामिति यावत् / नगरीम्-पुरीम् / मेने-अवाबुध्यत // 62 / / जिनेशितुर्दर्शनलालसाऽलसा-भुजङ्गकन्या हसितोन्मुखश्रियः / जलार्द्धरुद्धस्य तटान्तभूभिदः, पदात् पयोजन्मवनस्य रेजिरे // 63 // अन्वयः—जिनेशितुः, दर्शनलालसालसाः, हसितोन्मुखश्रियः, भुजङ्गकन्याः, जलार्द्धरुद्धस्य, तटान्तभूमिदः, पयोजन्मवनस्य, पदात् , रेजिरे // 63 // वृत्तिः--जिनेशितः-जिनस्तीर्थकदेव ईशिता प्रमुर्जिनेशिता, तस्य तथा / दर्शनलालसालसा:दर्शनस्यावलोकनस्य लालसा लिप्सा दर्शनलालसा तयाऽलसाः-क्रियानुन्मुखताशालिन्यस्तथा / हसितोन्मुखश्रियः-हसितेन-उन्मुखा श्रीः शोभा यासा तास्तथा / भुजङ्गकन्या:-भुजङ्गानां नागानां कन्याः, कुमारिका इति यावद्, भुजङ्गकन्याः / जलार्द्धरुद्धस्य-जलेन सलिलेन अर्द्धरुद्धम्-अर्द्धावृतम् जलार्द्धरुद्धम् तस्य तथा / तटान्तभूभिदः-तटान्ते तीरसमीपे भूभूमिस्तटान्तभूस्ता भिनत्तीति तटान्तभूमितस्य तथा / पयोजन्मवनस्य-पयोजन्मनां पयोजानां कमलानामिति यावद्वनम्-काननम् पयोजन्मबनम् तस्य तथा / पदाव-स्थानान् / रेजिरे-शुशुभे // 3 // वशीकृते तत्सरसाप्सरोजने-ऽवतारमाप्ते प्रतिबिम्बितोडुभिः / सरोरुहे सौरभचौरबन्धन, मृणालजालस्य मिषाद् बभार यः // 6 // अन्वयः-तत्सरसा, अप्सरोजने, वशीकृते, प्रतिबिम्बितोडुभिः, अवतारम् , आप्ते, सरोरुहे, मृणालजालस्य, मिषात् , यः, सौरभचौरबन्धनम् , बभार // 64 // वृत्तिः-तत्सरसा-तत्कासारेण / अप्सरोनने-अप्सरसः उर्वशीमुखाः स्वर्वेश्या एव जनो लोकोऽप्सरोजनस्तस्मिंस्तथा / वशीकृते-आयत्तीकृते, अधीनीकृते इति यावत् / “कम्वस्तिभ्यां कर्मकर्तृभ्याम्" 7 / 2 / 126 // इत्यनेन प्रागत्त्वेऽर्थे 'च्चि'प्रत्ययः, "ईश्च्वाववर्णस्यानव्ययस्य" 4 / 3 / 111 // इत्यनेन च्वौ परेऽवर्णस्येकारोन्तादेशः / प्रतिविम्बितोडभि:-प्रतिबिम्बितास्तडाग