________________ 248 ] भीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे तां तथा / सुधाम्-अमृतम् / धारयन्-सम्यग्बिभ्रत् / रसागमैः-रसस्य तिक्तादेरागमाः सम्प्राप्तयो रसागमास्तैस्तथा / विशिष्य-विशेषरूपेण / वसुधाम्-पृथिवीम् / पुष्यन्-पोषयन् , पालयन्निति यावत् / इव-यथा / तडागः-पद्माकरः, कासार इति यावत् / बने-कानने / अवनीभुजाअवनी "पृथिवीं भुनक्ति पालयति इत्यवनीमुक् तेन तथा / राज्ञा शान्तिनाथेनेति यावत् / ददृशे-दृष्टः / इति-एवम् / मन्ये-अवबुध्ये, जानामि इति यावत् // 6 // पयोनिलीनाऽभ्रमुकामुकावली-बलीयसां राजिरमुष्य दन्तिनाम् / पिपासुराकान्तिपदाद दिवा दिवा, पुरस्य साम्यं सरसोब्धिनाऽवदत् // 61 // अन्वयः--पयोनिलीनाभ्रमुकामुकावलीबलीयसाम् , अमुष्य, दन्तिनाम् , दिवा, आक्रान्तिपदात्', पिपासुः, राजिः, दिवा, पुरस्य, अधिना, सरसः, साम्यम् , अवदत् // 61 // वृत्तिः--पयोनिलीनाऽभ्रमुकामुकावलीबलीयसाम्-पयसि जले, निलीना निमग्नाः पयोनिलीनास्ते च ते अभ्रमुकामुका:-ऐरावता यद्वैमः ‘ऐरावणोऽभ्रमातङ्गश्चतुर्दन्तोऽकसोदरः / ऐगवतो हस्तिमल्लः, श्वेतगजोऽभ्रमुप्रियः // 2-1 // 91 // इति, अभ्रमुप्रियाभ्रमुकामुकौ समानार्थकाविति / पयोनिलीनाभ्रमुकामुकास्तेषामावलिः राजिः समूह इति यावत्, पयोनिलीनाभ्रमुकामुकावली, तत्र बलोयांसोऽतिशयेन बलवन्तः पयोनिलोनाभ्रमुकामुकावलीबलीयांसस्तेष। तथा / अमुष्य-चक्रिणः / दन्तिनाम्करटिनाम् , मतङ्गजानामिति यावत् / दिवा-दिवसे / आक्रान्तिपदात-आक्रमणस्थानात् / पिपासुःपानेच्छवती / राजिः-श्रेणी / दिवा-स्वर्गेण / पुरस्य-राजधानीरूपात्मनगरस्य / अब्धिनासमुद्रेण / सरसः-सरोवरस्य, कासारस्येति यावत् / साम्यम्-तुलनाम् / अवदत्-अकथयत् / / 61 / / जलान्तसद्भिन्नमदान्धसिन्धुर-रदाननन्तोरगपुच्छसच्छवीन् / निरीक्ष्य मेने नगरी नु भोगिनां, समापतन्तीं जिनसेवया जनः // 62 // अन्वयः--जनः, अनन्तोरगपुच्छसच्छवीन् , जलान्तसद्भिन्नमदान्धसिन्धुररदान्, निरीक्ष्य, नु, जिनसेवया, समापतन्तीम् , भोगिनाम् , नगरीम् , मेने // 62 // वृत्तिः-जन:-लोकः / अनन्तोरगपुच्छसच्छवीन-अनन्तोरगः अनन्तसंज्ञक उरगः सर्पः शेष इति यावत् , अनन्तोरगस्तस्य पुच्छं-लालम् , अनन्तोरगपुच्छम्, तद्वत् सुच्छविः-शोभनदीप्तिर्येषान्ते अनन्तोरगपुच्छसच्छवयस्तांस्तथा / जलान्तसद्भिन्नमदान्धसिन्धुररदान्-सन्तः साधवश्व भिन्ना गर्जिताः सद्भिन्नाः, सद्भयो भिन्ना अतिरिक्ता इतरे इति यावत् वा सद्भिन्नाः ते च ते