________________ -पाचार्यविषयामृतसूरीश्वरकृतायां विदिनोदिन्या पर्षः सर्गः [ 247 कृपणक्रियाया आश्रय आश्रयणम् कृपणक्रियाश्रयस्तस्मात्तथा / उपाललम्मे-उपालभ्यते स्म / अपिसम्भावनायम् // 8 // वदान्यलोकेन कृताः प्रपास्त्रपां, कथं न धत्से रसभृत् समीक्ष्य ताः / निलीय तस्मिन्निवसन्नपांनिधि--भवानतस्त्वां मकराकराऽस्तु धिक् // 59 // अन्वयः--मकराकर!, वदान्यलोकेन, कृताः, ता, प्रपाः, समीक्ष्य, त्रपाम् , कथम् , न, धत्से, अपांनिधिः, (सन्नपि) रसमृत् , भवान्, तस्मिन् , निलीय, निवसन् , (अस्ति) अतः, त्वाम् , धिक् // 19 // वृत्तिः-मकराकर!-मकराणां जलजन्तुविशेषाणामाकरः खानिराधार इति यावत् मकराफरस्तदामन्त्रणे तथा / वदान्यलोकेन-वदान्यो दानशीलश्चासौ लोको जनो वदान्यलोकस्तेन तथा / कृता:-विहिताः / ता:-लोकोपकारकत्वेन प्रसिद्धाः / प्रपा:-प्रपिबन्त्यास्विति प्रपाः, पानीयशालास्तास्तथा। समीक्ष्य-समवलोक्य / त्रपाम्-लज्जाम् / कथम्-केन हेतुना / न-नहि / धत्सेधारयसि / अानिधिः- अापतिरिति यावत् / (सन्नपि) रसभृत-रसान् मधुरादीन् / बिभर्ति धारयति इति रसभृत् / भवान्-भवल्लक्षणः त्वमिति यावत् / तस्मिन्-पुरोपकण्ठे / निलीयप्रच्छन्नीभूय / निवसन्-वासं कुर्वन् / (अस्ति) अत:-अस्मात्कारणात् / त्वाम्-त्वल्लक्षणं जनम् / धिक-तव धिक्कारोऽस्त्वित्यर्थः / “गौणात्-समया-निकषा-हा-धिगन्तरान्तरेण" 2 / 2 / 33 // इत्यनेन धिकशब्दयोगे द्वितीया / यज्जगन्नाथः कविः-'याते मय्यचिरानिदाघसमये, ज्वालाशतैः शुष्कता गन्ता के प्रति पान्थसन्ततिरसौ, सन्तापमालाकुला / इत्थं यस्य निरन्तराधिपटलैर्नित्यं वपुः क्षीयते, धन्यं जीवनमस्य मार्गसरसो घिग् वारिधीनां जनुः' इति // 19 // इतीव मन्ये भगवद्गवीरसात , सीतोपदेशां स सुधां सुधारयन् / विशिष्य पुष्यन् वसुधां रसागमै-वने तडागो ददृशेऽवनीभुजा // 60 // ___ अन्वयः--भगवद्गवीरसात् , सितोपदेशाम् , सुधाम् , सुधारयन् , रसागमे, विशिष्य, वसुधाम् , पुष्यन् , हव, तडागः, वने, अवनीभुजा, ददृशे, इति, मन्ये // 60 // वृत्तिः--भगवद्गवीरसात-भगवतो महामहिमशालिनः शान्तिनाथस्य गौर्वाणी भगवद्गवी "गोस्तत्पुरुषात्" 7 / 3 / 105 // इत्यनेन समासान्तोऽट्प्रत्ययष्टित्वान्डीश्च तस्या रस आस्वादो भगवद्गवीरसस्तस्मात्तथा / सितोपदेशाम्-सितः शुल्कः उपदेशः प्रतिबोधो यस्यां सा सितोपदेशा