________________ 246 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे नानि, कुसुमान्यनूनसूनाति तानि स्पृशतीति तथा। वनानिल:-काननपवनः / अङ्गिभिः-पाणिभिः / असेव्यत-समाश्रीयत, सेवित इति यावत् // 56 // अथ स्वमादाय भयेन मन्थनात् , तडागभागव्यपदेशलेशतः / पुरोपकण्ठे शरणागतं प्रभुः, कदाचिदम्भोधिमिह व्यलोकयत् // 57 // अन्वयः-अथ, कदाचित् , प्रमुः, मन्थनात् , भयेन, स्वम् , आदाय, तडागभागव्यपदेशलेशतः, इह, पुरोपकण्ठे, शरणागतम् , अन्मोधिम् , व्यलोकयत् // 17 // वृत्तिः-अथ-अनन्तरम् / कदाचित-अकस्मात् , जातुचित् / मन्यनात-देवासुरकर्तृकमन्दराचलादिकरणविलोडनात् / भयेन-भीत्या / स्वम्-धनम् / आदाय-गृहीत्वा / तडागभागव्यपदेशलेशत:-तडागभागस्य-कासारैकदेशस्य व्यपदेशलेशो व्याजलवस्त डागभागव्यपदेशलेशस्तस्मात्तथा / इह-अत्र। पुरोपकण्ठे-नगरसमीपे / शरणागतम्-शरणे-रक्षणे, आगतः-समायातः शरणागतस्तं तथा। अम्भोधिम् -अम्भांसि जलानि धीयन्तेऽस्मिन्नित्यम्भोधिः समुद्रस्तं तथा / व्यलोकयत्-अपश्यत् / / 57 / / जडात्मकत्वादुपभोग्यताच्युतं, चिरत्नरत्नाधिकमुत्थितं चिरात् / दधत् त्वधः स्वं विभवं स चक्रिणा-प्युपाललम्भे कृपणक्रियाश्रिया // 5 // अन्वयः-तु, जडात्मकत्वात् , उपभोग्यताच्युतम् , चिरत्नरत्नाधिकम् , चिरात् , उत्थितम् , स्वम् , विभवम् , अधः, दधत्, सः, चक्रिणा, कृपणक्रियाश्रिया, उपाललम्भे, अपि // 58 // . वृत्तिः-तु-पुनः / जडात्मकत्वात्-जडश्चैतन्यविहीन आत्मा स्वरूपं स्वभावो वा यस्य स जडात्मकस्तस्य भावो जडात्मकत्वम् तस्मात्तथा / उपभोग्यताच्युतम्-उपभोक्तुं योग्यमुपभोग्यम् , तस्य भाव उपभोग्यता तया च्युतो रहित उपभोग्यताच्युतस्तं तथा। चिरत्नरत्नाधिकम्-चिरत्नानि-चिरन्तनानि प्राचीनानीति यावच्चरितानि रत्नानि चिरत्नरत्नानि ऐरावतादयस्तैरप्यधिकश्चिरत्नरत्नाधिकस्तं तथा / चिरात्-बहुकालात् / उत्थितम्-समृद्धम् / उच्चितमिति पाठेऽप्यर्थे न कोऽपि भेदः वृद्धिंगतमिति तदर्थः / स्वम्-आत्मीयम् / विभवम्-ऐश्वर्य्यम् , धनमिति यावत् / अधः-अन्तः / दधत्धारयन् / स:-अम्भोधिः / चक्रिणा-चक्रवर्तिना, शान्तिनाथेन / कृपणक्रियाश्रिया-कृपणानां-कद या॑णां त्यक्तसद्वथयानामिति यावत् / क्रिया-आचरणम् कृपणक्रिया तदुचिता श्रीलक्ष्मीः कृपणक्रियाश्रीस्तया तथा / वस्तुतस्तु 'कृपणक्रियाश्रयात्' इत्येवपाठः साधीयानिति सुधीभिर्विभावनीयम् /