SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ -आचार्य विजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां चतुर्थः सर्गः [245 स्फुटार्तवाङ्का धृतकामधीजं, प्रभिन्नगण्डं तदचण्डगर्जितम् / असेवतामुं मधुगन्धवारिणि, हृदे मदेनोचकर करेणुका // 55 // अन्वयः--स्फुटार्तवाङ्का, धृतकामधीः, करेणुका, प्रभिन्नगण्डम् , तदचण्डगर्जितम् . अमुम् , गजम , उच्चकरे, हृदे, मधुगन्धवारिणि, मदेन, असेवत // 55 // वृत्ति.–स्फुटातवाङ्का-ऋतो रजसोऽयमार्तवः, ऋतुसम्बन्धी, स्फुटो व्यक्त आर्तवोऽङ्काश्चिह्न यस्याः सा तथा। धृतकामधी:-धृता कामधीः-स्मरबुद्धिर्यया सा तथा / करेणुका-हस्तिनी करोति प्रमोदमिति करेणुः सेव करेणुकेति बोध्यम् / प्रभिन्नगण्डम्-प्रभिन्नौ गण्डौ, करटौ, कटौ वा यस्य स प्रभिन्नगण्डस्तं तथा / तदचण्डगर्जितम्-तस्मादचण्डमनत्युग्रं गर्जितम् गर्जनम् यस्य स तदचण्डगर्जितस्तं तथा / अमुम्-विप्रकृष्टम् / गजम्-हस्तिनम् / उच्चकरे-उच्चोऽतिशयितकरो रश्मिर्यस्य स तस्मिँम्तथा / वस्तुतस्तु 'उच्चकरम्' इति पाठः समीचीनस्तावतापि च्छेकानुप्राससंरक्षणसम्भवात् व्यञ्जनसङ्घस्यैव सकृदावृत्तौ तत्स्वीकारात "वर्णसाम्यमनप्रासश्छेकवत्तिगतो द्विधा / सोऽनेकस्य सकत एकस्याप्यसकृत् परः" इति काव्यप्रकाशात हदे उच्चकरत्वविशेषणस्यानतिप्रयोजनकत्वाञ्चेति विचारणी गजविशेषणतया द्वितीयान्तपाठे तु उच्चः करः शुण्डा यस्य स उच्चकरस्तन्तथा। यद्वा उच्चं कं जलम उच्चकम् तस्य रा लक्ष्मीः शोभा यस्मिन् स उच्चकरस्तस्मिँस्तथा / हदे-अगाधजलसरोवरे / द्रहे इति यावत् / मधुगन्धवारिणि-मधु मद्यञ्च गन्धश्च मधुगन्धौ ताभ्यां सहितं वारि जलम् मधुगन्धवारि तस्मिंस्तथा / मदेन-हर्षेण / असेवत-सेवितवती // 55 // द्विधा बलं प्राप्य च सौरभस्थिते-रनूनसूनस्पृगसेव्यताङ्गिभिः / सरिद्वरात्यक्तनिषद्वराम्भसि, प्रणीतलीलाप्लवनों वनानिलः // 56 // अन्वयः--च, सौरभस्थितेः, द्विधा, बलम्, प्राप्य, सरिदकरात्यक्तनिषदाम्भसि, प्रणीतलीलाप्लवनः, अनून पूनस्पृक्, वनानिनः, अङ्गिभिः, असेव्यत // 56 // . .. वृत्तिः-च-पुनः / सौरभस्थितेः-सौरभस्य सौगन्ध्यस्य स्थितिः सत्ता सौमभस्थितिस्तस्यातथा / द्विधा-द्विविधम् / बलम्-सामर्थ्यम् / प्राप्य-समधिगत्य / सरिद्वरात्यक्तनिषद्वराम्भसिअत्यक्ता निषद्वरो जम्बालं येन तदत्यक्तनिषद्वरम् तच्च तदम्भो जलम् अत्यक्तनिषद्वराम्भः, सरिद्वरस्य नदीश्रेष्ठम्य अत्यक्तनिषद्वराम्भः, सरिद्वरात्यक्तनिषद्वराम्भस्तस्मिँस्तथा / प्रणीतलीलाप्लवन:-प्रणीतं कृतं लीलाप्लवनं जलक्रीडा येन स तथा। अनूनसूनस्पृक्-अनूनानि प्रचुराणि च तानि सूनानि प्रसू
SR No.004339
Book TitleShantinath Charitram
Original Sutra AuthorAmrutsuri
AuthorAbhaydevsuri
PublisherJain Sahitya Vardhak Sabha
Publication Year1965
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy