________________ 244 ] श्रीजननंषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे साम्राज्यम्-स्वलोकस्य निजजनस्य, साम्राज्यमाधिपत्यम् , स्वलोकसाम्राज्यम् तत्तथा / अमंस्तअमन्यत, अवबुध्यते स्मेति यावत् // 52 // लताबलालास्यकलागुरुस्तरुः, शमी रणाद् न ह्यभवत् समीरणात् / स किङ्किरातोऽपि किरातजातवद्, भियेऽध्वगानां सपलाशवासनः // 53 // अन्वयः-लतावलालास्यकलागुरुः, तरुः, रणात् , न, शमी, अभवत् , हि, सपलाशवासनः, सः, किङ्करातः, अपि, समीरणात् , किरातजातवत् , अध्वगानाम् , भिये, ( अभवत् ) // 53 // वृत्तिः-लतोबलालास्यकलागुरु:-लता वल्ल्य एव अबला लताबलास्तासां लास्यकला नृत्यविद्या लताबलालास्यकला तस्या गुरुरध्यापकस्तथा / तरु:-वृक्षः / रणात्-युद्धात् शब्दाद्वा / . न-नहि / शमी-शान्तः / अभवत्-अभूत् / हि-निश्चयेन / सपलाशवासनः-पलाशस्य मांसभक्षणस्य वासनःऽभिध्या, सङ्कल्प इति यावत् पलाशवासना, तया सहितः सपलाशवासनः / सः-प्रसिद्धः / किङ्किरात:-रण्टकः / अपि-सम्भावनायाम् / समीरणात्-वायोः, सकाशादिनि शेषः / किरातजातवत-किरन्ति शरानिति किराता भिल्लाः पुलिन्दा इति यावद, तेषां जातवत् समूहः किरातजातम् तस्येव तथा / इवार्थे 'वत्' प्रत्ययः / अध्वगानाम्-पान्थानाम् , विरहिणामिति यावत् / भियेभयाय, आतङ्कायेति यावत् / ( अभवत् ) // 53 / / रजो दधानामपि मल्लिवल्लिकां, प्रसूनगन्धोत्करपश्यतोहरः। जहाँ न दूरे मधुपोऽन्धसाऽऽदरा-दहोऽलिमत्ते समये न चेतना // 54 // अन्वय:--प्रसूनगन्धोत्करपश्यतोहरः, मधुपः, दूरे, (स्थितेऽपि) अन्धसा, आदरात , रजः, दधानाम् , अपि, मल्लिवल्लिकाम् , न, जही, अहो, अलिमत्ते समये, चेतना, न // 54 // ____ वृत्तिः-प्रसूनगन्धोत्करपश्यतोहर:-प्रसूननानाम् पुष्पाणां गन्धोत्करः गन्धसमूहः प्रसूनगन्धोत्करस्तस्य पश्यतोहरश्चोरस्तथा / “पश्यद्वागदिश हग्युक्तिदण्डे” 3 / 2 / 32 / / इत्यनेन षष्ठया अलुक् / मधुपः-भ्रमरः, मधुकर इति यावत् / दूरे-विप्रकृष्टे स्थितोऽपीति शेषः / अन्धमाभोजनेन / आदरोत्-सत्कारात् , स्नेहादिति यावत् / रजः-धूलिम् , परागमिति यावत् / दधानाम्-धारयन्तीम् / अपि-सम्भावनायाम् / मल्लिबल्लिकाम्-मल्लिकावल्लरीम् / न-नहि / जहौतत्याज / अहो आश्चर्यम् / अलिमत्ते-भ्रमरगुजारवपरिपूर्णे इत्यर्थः / समये-काले कुसुमाकर समय इति यावत् / चेतना-चैतन्यम् , कर्तव्याकर्तव्यविवेक इति यावत् / न-नहि / तिष्ठतीति शेषः // 54 //