________________ -आचार्य विजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां चतुर्थः सर्गः [ 243 द्विधापि-उभयविधमपीति यावत् / अन्तः कामरूपम् बहिः सूर्य्यतापरूपश्चेति यावत् / सन्तापनतापम्-सूर्य्यसम्बधिनं तापमित्यर्थः / आदधौ-दधार, धारयामासेति यावत् // 50 // मधुव्रतज्याजुषि पुष्पकार्मुके, निधीयमानेऽथ खगे युगेषुणा / . व्यतर्कि सर्वर्तुवने घने मधु, सहायमाधाय कृता हतिर्नृणाम् // 51 // अन्वयः-अथ, मधुव्रतज्याजुषि, पुष्पकार्मुके, युगेषुणा, खगे, निधीयमाने, घने, सर्वर्तुवने, मधुम् , सहायम् , आधाय, कृता, नृणाम् , हतिः, व्यतर्कि // 51 // __वृत्तिः-अथ-अनन्तरम् / मधुव्रतज्यायुषि-मधुव्रता भ्रमरा एव ज्या मौर्वी मधुव्रतज्या तां जुषते सेवते आश्रयतीति यावत् तस्मिंस्तथा / पुष्पकामके-पुष्पाणि कुसुमान्येव कार्मुकं धनुः पुष्पकार्मुकम् तस्मिंस्तथा / युगेषुणा-कामेन / खगे-खे आकाशे गच्छतीति खगो बाणस्तस्मिँस्तथा / निधीयमाने-संस्थाप्यमाने / घने-सान्द्रे, निविडे इति यावत् / सर्वर्तुवने-सर्वौ सर्वस्मिन् ऋतौ सप्रसवम् , सर्वतुसप्रसवम् तच्च तद्वनम् काननम् , सर्वर्तुवनम् “मयूरव्यंसकेत्यादयः" 3 / 1 / 116 // इत्यनेन शाकपार्थिवादेराकृतिगणत्वान्नध्यमपदलोपी समासः / मधुम्-वसन्तम् / सहायम्-सहायकम् / आधाय-निधाय, समासाद्येति यावत् / कृता-विहिता। नृणाम्-मानवानाम् / हति:-घातिः / व्यतर्कि-तर्किता, तर्कविषयमानीतेति यावत् / लौकैरिति शेषः // 51 // . खगे द्विधा रागिणि पद्मिनीगणे, स्फुटे करस्पर्शनजाङ्गजज्वरे / स्वलोकसाम्राज्यममस्त निर्भय, स मित्रमत्रानुसरन्निव स्मरः // 52 // अन्वयः-विधा, रागिणि, पद्मनीगणे, करस्पर्शनजाङ्गजज्वरे, खगे, स्फुटे, ( सति ) अत्र, निर्भयम् , मित्रम् , अनुसरन, इव, सः, स्मरः, स्वलोकसाम्राज्यम् , अमंस्त // 52 // वृत्तिः-द्विधा-प्रकारद्वयेन / रागिणि-रागोऽनुरागो लौहित्यश्वास्त्यास्येति रागी तस्मिस्तथा / पद्मिनीगणे-पद्मनीलक्षणकलितप्रमदाकदम्बके कमलिनीसमूहे च / करस्पर्शनजाङ्गजज्वरेकरस्पर्शनजः हस्तसंस्पर्शजनितोऽङ्गजन्वरः कामसन्तापो यस्मात् स करस्पर्शनजाङ्गजज्वरस्तस्मिंस्तथा / खगे-बाणे / स्फुटे-प्रकटे सतीति शेषः / अत्र-अस्मिन् , कानने इति यावत् / निर्भयम्-भयरहितं यथा स्यात्तथा / मित्रम्-सुहृदम् सूर्य्य वा सतेजसम् / अनुसरन्-अनुगच्छन् , स्वयमपि, तथा भवग्निति यावत् / इव-यथा / सः-सर्वलोकप्रसिद्धः / स्मरः-कामः कन्दर्प इति यावत् / स्वलोक