________________ 242 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनायचरित्रे करेण मीनं निजकेतनं दधत् , स्मरः स्वरूपोपमया तमाश्रयत् / ततो रिरंसुः सुहृदा यथेच्छया, वने दिदीपे समधुर्मधुव्रतैः // 19 // अन्वयः-निजकेतनम् , मीनम् , करेण, दधत् , स्मरः, स्वरूपोपमया, तम् , आश्रयत् , ततः, सुहृदा, यथेच्छया, रिरंसुः, समधुः, (सन् ) वने, मधुव्रतैः, दिदीपे // 49 // वृत्तिः–निजकेतनम्-निजं स्वीयम् आत्मीयमिति यावत् , केतनं लान्छनम् चिह्नमिति यावत् , निजकेतनम् / मीनम्-मत्स्यम् / करेण-हस्तेन / दधत्-धारयन् / स्मर:-कामः, कन्दर्प इति यावत्। स्वरूपोपमया-स्वस्य आत्मनो रूपं सौन्दर्यम् स्वरूपम् तस्य उपमा सादृश्यम् स्वरूपोपमा तया तथा / तम्-कामतुल्यसौन्दर्यवत्तया प्रसिद्धं भगवन्तं शान्तिनाथमिति यावत् / आश्रयत-अबालम्बत, समाश्रितवानिति यावत् / ततः तदनन्तरम् / सुहृदा-मित्रेण / यथेच्छयास्वेच्छानुसारम् / रिरंसुः-रन्तुमिच्छुः, रमणाभिलाष इति यावत् / समधुः-मधुना वसन्तेन सहितस्तथा / (सन् ) वने-कानने / मधवतैः-भ्रमरैः / दिदीपे-दिद्यते, बभ्राजेति यावत् / तथा च कुमारसम्भवे कालिदास:-"मधुश्च ते मन्मथसाहचर्य्यादसावनुक्तोऽपि सहाय एव / समीरणो नोदयिता भवेति, व्यादिश्यते केन हुताशनस्य" / इति एतावता मधुना कामस्य मित्रत्वं सूचितमिति भावः // 4 // पवित्रितोऽसावृषिकुल्यया लयात्, द्रुमालवालाम्बुनिवेशशङ्कया / सुसौरभासानुगतोऽथ तापसे, द्विधापि सन्तापनतापमादधौ // 50 // अन्वयः-द्रुमालवालाम्बुनिवेशशङ्कया, ऋषिकुल्यया, लयात् , असौ, पवित्रितः, अथ, सुसौरभासानुगताः, तापसे, द्विधा, अपि, सन्तापन तापम् , आदधरै // 50 // वृत्तिः-मालवालाम्बुनिवेशशङ्कया-द्रुमाणां वृक्षाणामालबालानि आवालानि द्रुमालवालानि तेष्वम्बु जलम् द्रुमालवालाम्बु तस्मिन्निवेशशङ्का द्रुमालवालाम्बुनिवेशशङ्का तया तथा / ऋषिकुन्यया-ऋषीणामनगाराणां, मुनीनामिति यावत् / कुल्या-कृत्रिमाल्पसरित् ऋषिकुल्या तया। लयात-संश्लेषात् / असौ-चक्री, भगवाञ्छान्तिनाथ इति यावत् / पवित्रितः-पवित्रीकृतः। अथअनन्तरम् / सुसौरभासाऽनुगतः-सूरस्य सूर्यस्येयम् सौरी सा चासौ भाः किरणम् , सौरभाः, सु-समीचीना चासौ सौरभा सुसौरभास्तया तथा, अनुगतः सुसम्बद्धः / पक्षे-सु-सुष्टु सौरभेण वसन्तभावेन, आसानु शिखरं मर्यादीकृत्य गतः प्राप्तस्तथा / तापसे-तप एव तापसम् तस्मिन् ,