________________ आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्या चतुर्थः सर्गः / [241 जगत्सर्वमिति विष्णुापको तस्य भावो विष्णुता तान्तथा / आप-प्राप, अध्यगच्छदिति यावत् / / 46 // सुधाभुजामप्यतिशायिशासनाद्, निषेवितोऽयं वसुधाभुजां गणैः / अविन्दताऽऽमोदभरं बहिश्चरं, परं तमध्यात्मभरं दधौ चिरम् // 47 // अन्वयः-सुधाभुजाम् , अपि, अतिशायिशासनात्, अयम् , वसुधाभुजाम् , गणैः, निषेवितः, बहिश्चरम् , आमोदभरम् , अविन्दत, परम् , तम् , अध्यात्मभरम् , चिरम् , दधौ // 47 // वृत्तिः-सुधाभुजाम-सुधाममृतं भुञ्जते भक्षयन्तीति यावत् , सुधाभुजो देवास्तेषां तथा / अपि-सम्भावनायाम् / अतिशायिशासनात्-अतिशेतेऽतिक्रामति सर्वमित्यतिशायि तच्च तच्छासनमनुशासनमतिशायिशासनम् तस्मात्तथा / अयम्-श्रीमाँश्चक्री शान्तिनाथ इति यावत् / वसुधाभुजाम्-वसुधां पृथिवीं भुञ्जन्ति पालयन्ति इति वसुधाभुजो गजानः, मध्यलोकेशाः, मध्यमलोकपाला * इति यावत् / गणैः-समूहः / निषेवितः -निःशेषेण सेवितः सुपूजितः, इति यावत् / बहिश्चरम्--बाह्यम् / आमोदभरम्-हर्षातिशयम् / अविन्दत-अलभत / परम्-उत्कृष्टम् , श्रेष्ठमिति यावत् / तम्-प्रसिद्धम् / अध्यात्मभरम्-आत्मनि इत्यध्यात्मम् तस्य भरोऽतिशयस्तं तथा / चिरम्चिरकालम् , बहुकालमिति यावत् / दधौ-अनुध्यातवान् चिन्त्यामासेति यावत् // 47 // प्रियत्वमास्थाय च भीमभूमनो-विनोदसिद्धय विषयेष्वरज्यत / धियाऽऽमुनाऽमानि सुखं भवेऽभव-द्विदर्भसुभ्रूविरहेण नान्तरम् // 48 // ___ अन्वयः–च, अमुना, प्रियत्वम् , आस्थाय, भीमभूमनोविनोदसिद्धथैः, विषयेषु, अरज्यत, धिया, भवे, सुखम् , अमानि, विदर्भसुभ्रूविरहेण, आन्तरम् , ( सुखम् ) न, अभवत् // 48 // ___ वृत्तिः-च-पुनः / अमुना-श्रीमता भगवता शान्तिनाथेन / प्रियत्वम्-स्नेहम् , अनुरागमिति यावत् / आस्थाय-आधाय / भीमभूमनोविनोदसिद्धय -भीमभुवः भीमदुहितुर्मनोऽन्तःकरणम् भीमभूमनस्तस्य विनोद आमोदो भीमभूमनोविनोदस्तस्य सिद्धिनिष्पत्तिर्भीमभूमनोविनोदसिद्धिस्तस्यै तथा / विषयेषु-स्रक्चन्दनादिविषयकदम्क्केषु / अरज्यत-रज्यते स्म / धिया-बुद्धया / भवे-संसारे / सुखम्-निवृतिम् , सौख्यमिति यावत् / अमानि-ज्ञातम् / विदर्भसुभ्रविरहेणविदर्भसुभ्रूवाविदर्भजाया विरहो विच्छेदः विप्रयोग इति यावत् / विदर्भसुभ्रूविरहस्तेन तथा / . आन्तरम-आभ्यन्तरिकम् / वास्तविकमिति यावत् / (सुखम् ) न-नहि / अभवत्-अभूत् // 46 / /