________________ 240 ] भीबननववीयमहाकाव्ये श्रीशान्तिनावचरित्र उर्वशीप्रमुखाः स्वर्वेश्याः / सुरानुवृत्त्या-सुराणां देवानामनुवृत्तिस्तया तथा / प्रभुवृचनतने प्रभोः स्वामिनः शान्तिनाथस्य वृत्तं चरित्रम्, प्रभुवृत्तम् तस्य नर्तनं नटनम् प्रभुवृत्तनर्तनम् , तस्मात्तथा / तथैव-तेनैव प्रकारेण / सविस्मयम्-सु-अतिशयितो विस्मय आश्चर्य यस्मिन् कर्मणि तन् सुविस्मयं यथा स्यात्तथा / विभावयन्ति स्म-व्यभावयत // 44 // इतीष्टगन्धाढ्यमटन्नसौ वनं, वधूतमाधूतमनाः स्वयौवनम् / त्रिवर्गसंपर्गनिसर्गसाधुधीः, पुपोष निर्दोषतयैव देवनैः // 45 // अन्वयः-इति, इष्टगन्धाढ्यम् , वनम् , अटन् , असो, वधूतमाधूतमनाः, त्रिवर्गसंसर्गनिसर्गसाधुधीः, (सन् ) देवनै निर्दोषतयैव, स्वयौवनम् , पुपोष // 45 // ___ वृत्तिः-इति-पूर्वोक्तप्रकारेण / इष्टगन्धाढ्यम्-इष्टोऽभीष्टश्चासौ गन्धो घ्राणतर्पणः, जनमनोहारी वा इष्टगन्धस्तेन आढ्यम्-समृद्धम् , इष्टगन्धाढ्यम् / वनम्-काननम् / अटन्-विचरन् / असौ-विप्रकृष्टो भगवान्छान्तिनाथः / वधृतमाधृतमना:-वध्वः-सीमन्तिन्य एव तमा निशीथिन्यो वधूतमास्ताभ्यो धूतं त्यक्तं मनोऽन्तःकरणं यस्य स तथा / त्रिवर्गसंसर्गनिसर्गसाधुधी:-त्रिवर्गाणां धर्मार्थकामानां संसर्गः सम्पर्कस्त्रिवर्गसंसर्गस्तस्मिन् सत्यपि निसर्गात् स्वभावात् साध्वी समीचोना मोक्षोपयोगिनी धीबुद्धियस्य स तथा / (सन् ) देवनैः-रमणैः / निर्दोषतया-दोषेभ्यो दूषणेभ्यः पापेभ्य इति यावन्निर्गता निर्दोषास्तेषां भावो निर्दोषता तया तथा / स्वयौवनम्-निजयुवत्वम् , स्वीयतारुण्यमिति यावत् / पुपोष-अपोषयत् // 45 // निधीयमानो हृदये सुरीजनैः, पिकोपगीतोऽपि शुकैः स्तुतोऽपि च / दिदृक्षितः कुण्डलिकामिनीमनो-रथैरथे प्रभुराप विष्णुताम् // 46 // अन्वयः-अथ, सुरीजन:, हृदये, निधीयमानः, पिकोपगीतः, च, शुकैः, स्तुतः, अपि, कुण्डलिकामिनीमनोरथः, दिक्षितः, एषः, प्रभुः, विष्णुताम् , आप // 46 // वृत्तिः-अथ-अनन्तरम् / सुरीजनैः-सुर्यो देवाङ्गना एव जनाः सुरीजनास्तैस्तथा / हृदये-अन्तःकरणे / निधीयमानः-संस्थाप्यमानः / पिकोपगीत:-पिकैः कोकिलैरुपगीतो वर्णितः पिकोपगीतः / च-पुनः / शुकैः-कोरैः / स्तुत:-प्रशंसितः / अपि-सम्भावनायाम् / कुण्डलिकामिनीमनोरथैः-कुण्डलाकारताऽस्त्येषामिति कुण्डलिनः सर्पास्तेषां कामिन्यो रमण्यो कुण्डलिकामिन्यस्तासां मनोरथा अभिलाषाः कुण्डलिकामिनीमनोरथास्तैस्तथा / दिक्षितः-दर्शनेच्छाविषयीकृतः / एषःप्रसिद्धत्वात् / पुरोवर्तितयैव दृश्यमानः / प्रभु:-विमुः, ईश्वर इति यावत् / विष्णुताम-वेवेष्टि