________________ माविषयाजदूरीया लिविनोलियां चतुर्थः सर्गः / [239 भिपतिकदम्बकैरिति यावत् / अपि-सम्भावनायाम् / प्रशस्याः-प्रशंसनीयाः, सज्जाता इति शेषः // 42 // विभोंः स्वशीलश्रुतिशालितालिभिः, समं निवृत्ताः सुरतेऽभिसारिकाः। स्वरामृतोनोपजगुश्च सारिका, गृहे गृहे तच्चरितस्य कारिकाः // 43 // अन्वयः--विभोः, स्वशीलश्रुतिशालितालिभिः, समम् , अभिसारिकाः, सुरते, निवृत्ताः, च, सारिकाः, गृहे गृहे, तच्चरितस्य, कारिकाः, स्वरामृतेन, उपजगुः // 43 // वृत्तिः-विभो:-प्रभोः, स्वामिन इति यावत् / स्वशीलश्रतिशालितालिभिः-स्वमात्मीय शीलं चारित्रम् , स्वशीलम् , तस्य श्रुतिः श्रवणम् , स्वशीलश्रुतिस्तया शालिता शोभिताश्च ता आलयः सख्यः स्वशीलश्रुतिशालितालयस्ताभिस्तथा / समम्-सह / अभिसारिका:-मदनेन मदेन वा याः श्लिष्टाः प्रियमभिसारयन्ति अभिसरन्ति वा तास्तथा / तथा च-भरत:-"हित्वा लज्जाभये श्लिष्टा मदेन मदनेन वा। अभिसारयते कान्तं सा भवेदभिसारिका" इति / सुरते-सम्भोगे / प्रियेभ्य इति शेषः / निवृत्ताः-निवृत्तिमुपगताः / च-पुनः / सारिका:-पीतपादाः गोकिराटिका इति यावत् / 'शारिकेति तालव्यादिशब्दपाठादत्रापि तथैव पाठः साधीयान् प्रतिभातीति विचारणीयम् / गृहे गृहे-प्रतिगृहम् , प्रत्येकस्मिन् , सदन इति यावत् , विप्सायामर्थे द्विर्भावोऽवगन्तव्यः / तच्चरितस्य-तस्य भगवतः शान्तिनाथस्य चरितम् , वृत्तमिति यावत् , तच्चरितम् , तस्य तथा / कारिका:क्रियन्ते विरच्यन्ते यत्नेनेति कारिकाः इलोकास्तास्तथा / कारिकाशब्दस्य श्लोकार्थत्त्वम् / यथा - "कारिकावली", "साङ्ख्यकारिका" इत्यादौ प्रसिद्धमिति / स्वरामृतेन-स्वरो निषादषभादिरेवामृतम्पीयूषम् , अथवा-स्वरोऽमृतमिवेत्युपमितसमासः “उपमेयं व्याघ्राद्यैः साम्यानुक्तौ" 3 / 1 / 102 // इत्यनेनोपमितसमासः / उपनगुः-तुष्टुवुः // 43 // सुरानुवृत्त्याऽप्सरसो, रसोर्मिभि-स्तरङ्गितायः प्रभुवृत्तनर्तने / विभावयन्ति स्म सुविस्मयं हरे-स्तयैव तत्पौरुषगायनीकृताः // 44 // अन्वयः–हरेः, तत्पौरुषगायनीकृताः, रसोर्मिभिः, तरङ्गिताङ्गयः, अप्सरसः, सुरानुवृत्या, प्रभुवृत्तनर्तने, तथैव, सुविस्मयम् , विभावयन्ति स्म // 44 // वृत्तिः हरे:-हरति दैत्यप्राणानिति हरिरिन्द्रस्तस्य तथा / तत्पौरुषगायनीकृताः-तस्य प्रभोः शान्तिनाथस्य पौरुषं पराक्रमस्तत्पौरुषम् तस्य गायना गायन्याश्च कृता गायनीकृताः / रसोमिभिः- अनुरागतर? / तरङ्गितागाय:-तरङ्गितमाप्लावितमहं शरीरं वासान्तास्तरङ्गिताझ्यः / अप्सरसा