________________ 238 ] बीन वषीयवहाकाव्ये बीमान्तिनापपरिष तदर्थमध्याप्यजनेन तदुवने, पटुकृता वा भवनेऽपि मागधाः / नमभ्यनन्दन्नवभावभावनेः, स्वकाव्यभाव्यान्वयरञ्जिनं जिनम् // 41 // अन्वयः–जनेन, तदर्थम् , अध्याप्य, पटुकृताः, मागधार, वने, अपि, भवने, वा, नवभावभावना, स्वकाव्यभाव्यान्वयरंजिनम् , तम् , जिनम् , अभ्यनन्दत् // 41 // वृत्तिः–जनेन-लोकेन / तदर्थम-भगवच्छान्तिनाथमुद्दिश्य / अध्याप्य-पाठयित्वा / पटकृता:-अपटवोऽनिपुणाः पटवो निपुणाः कृताः सम्पादिताः पटूकृताः, पण्डिताः कृताः इत्यर्थः / “कृभ्वस्तिभ्यां कर्मकर्तृभ्याम्” 7 / 2 / 126 // इत्यनेन प्रागतत्त्वे "(अभूततद्भावे) ऽर्थे 'च्विः' प्रत्ययः / " "ईश्च्वावर्णस्यानव्ययस्य" 4 / 3 / 111 // इत्यनेन च्वौ परेऽवर्णस्येकारान्त आदेशः / मागधा:-वन्दिनः। वने-कानने / अपि-सम्भावनायाम् / भवने-सद्मनि / वा-इव / नवभावभावनैः-नवो नूतनश्चासौ भावोऽभिप्रायो नवभावस्तत्सहितानि-भावनानि-ध्यानानि, स्तवनानीत्यर्थः, परमात्मचिन्तनानीति, यावत् , नवभावभावनानि तैस्तथा / स्वकाव्यभाव्यान्वयरञ्जिनम्-स्वस्य आत्मनः, काव्यं कविता स्वकाव्यम् तस्य भाव्यान्वयः मुहुर्मुहुश्चर्वणसम्बन्धःस्वकाव्यभाव्यान्वयस्तेन रजत्यनुरागमाधत्ते तच्छीलः स्वकाव्यभाव्यान्वयरञ्जी तथा / "अजातेः शोले" 5 / 1 / 154 // इत्यनेन तच्छीले 'णिन्' प्रत्ययः'। तम्-प्रसिद्धम् , भगवन्तं शान्तिनाथमिति यावत् / अभ्यनन्दत्-समानन्दयत् // 41 // वनेचरैः सार्धमुपातकिंशुकाः, शुका विमुक्ताः पटवस्तमस्तुवन् / तथा यशोभिर्विशदीकृताशयै-र्यथा प्रशस्याः सकृपैर्नु पैरपि // 42 // अन्वयः-वनेचरः, सार्धम् , उपात्तकिंशुकाः, विमुक्ताः, पटवः, शुकाः, तम , तथा, अस्तुवन्, यथा, यशोभिः, विशदीकृताशयैः, सकृपः, नृपः, अपि, प्रशस्या ( सजाता इति शेषः / ) // 42 // वृत्तिः–वनेचरैः-वने कानने चरन्तीति वनेचराः, किरातप्रभृतयस्तैस्तथा / सार्धम्सह / उपात्तकिंशुको:-उपात्ताः-स्वीकृताः किंशुकाः, इत्युपात्तकिंशुकाः / विमुक्ताः-व्यक्ताः / जनेनअध्याप्येति शेषः / पटव:-चतुराः / शुका:-कीराः / तम्-श्रीमन्तं भगवन्तं शान्तिनाथमिति यावत् / तथा-तेन प्रकारेण / अस्तुवन्-अस्तुवन्तः-अवर्णयन्निति यावत् / यथा-येन प्रकारेण / यशोभिःकीर्तिभिः। विशदीकृताशयैः-अविशदोऽस्वच्छो विशदः स्वच्छः कृतो विशदीकृतः अभूततद्भावेऽर्थे 'च्विः' प्रत्ययः, च्वौ परेऽवर्णस्येकारोऽन्तादेशश्च, विशदीकृत आशयोऽभिप्रायो येषान्ते विशदीकृताशयास्तैस्तथा / सकृपः-कृपयाऽनुकम्पया सहिताः सकृपास्तैस्तथा / नृपः-राजभिः, भगवदनुयायि