________________ -पाचाविषयामृतरीवरकृताया विद्वदिनोदिन्या चतुर्थः सर्गः यन्त्रजः स चासौ ध्वनिः शब्दविशेषस्तालविशालयन्त्रजध्वनिः / तम्-चक्रितया प्रसिद्धं भगवन्तं शान्तिनाथमिति यावत् / आरराध-आराधनक्रियानिरूपितकर्मताश्रयमादधौ / वने-कानने / अपिसम्भावनायामव्ययम् / मृदङ्गोदितवेणुवादनात-मृदङ्गमुरजैरुदितो वेणुर्मृदङ्गोदितवेणुस्तस्य वादनम् मृदङ्गोदितवेणुवादनम् तस्मात्तथा / तौर्यत्रिकम-नृत्यगीतवाद्यत्रयमित्यर्थः। तमारराति शेषः // 39 // अलीनचेता विषयोपभोगवान्, न-दीनवृत्त्याऽतिगभीरधीरधीः / अरीरमत् सारसनान्वितालिभिः,क भोगमाप्नोति न भाग्यभाग्जनः॥४०॥ अन्वयः-अलीनचेताः, विषयोपभोगवान् , अतिगभीरधीरधीः, (सन् ) न दीनवृत्या, सारसनान्वितालिभिः, अरीरमत् , भाग्यभाक् जनः, क, भोगम्, व, आप्नोति // 40 // वृत्तिः--अलीनचेता:-अलीनमनिरतं चेतो मानसं यस्य सोऽलीनचेताः / विषयोपभोगवान्विषयाणां स्रक्चन्दनवनितादीनां शब्दादीनां देशानां बा उपभोगो विषयोपभोगः, सोऽस्त्यस्येति विषयोपभोगवान , “अतोऽनेकस्वरात्" 7 / 2 / 6 // इत्यनेन मत्वर्थे 'इन्' प्रत्ययः / अतिगभीरधीरधी:गभीरा गम्भीरा चासौ धीरा धैर्यवती प्रवणतुल्या स्थिरताशालिनीति यावत् गभीरधीरा तादृशी धीबुद्धिर्यस्य स तथा। नदीनवृत्त्या-न दीना-कृपणा दुर्गतेति यावत्, नदीना, नैकधेत्यादिवन्निषेधार्थकेन नशब्देन समासः, नदीना चासौ वृतिर्व्यापारो नदीनवृत्तिस्तया तथा / यद्वा नदीनः समुद्रस्तस्य वृत्त्या, विशालगभीरवृत्त्येति यावत् / सोरसनान्वितालिमिः-सारसना कटिमेखला तयाऽन्विता विशिष्टा सारसनान्वितास्ताश्च ता आलयस्त्रियः सख्यः, सारसनान्वितालयस्ताभिस्तथा / पक्षे-सारसनं कवचविशेषस्तेनान्विता युक्ताः, सारसनान्विता वीरास्तेषामालयः श्रेणयः सारसनान्वितालयस्ताभिस्तथा / "आली संख्यावली सेत्वमर्षेषु विशदाशये” इत्यनेकार्थः / उक्तानेकार्थककोशे आलीशब्दोपादानात् प्रकृतश्लोके च आलिशब्दसद्भावादिकारान्तस्य तस्य श्रेणीबोधकत्वेऽपि सखीबोधकत्वं दुरूपपादमिति नो शङ्कयम् , "वयस्यालिः सखी सध्रीची" 31193 // इत्यभिधानचिन्तामणी, सख्यर्थकालिशब्दस्यापि दर्शनात् / राजिः-राजी श्रेणिः श्रेणीत्यादाविव, “इतोऽक्त्यर्थात्" इत्यनेन वैकल्पिकङीविधानात्तादृशद्वयस्याप्येकार्थकत्वेन पर्यायतास्वीकारात् / अरीरमत-अक्रीडत् , अलीलसदिति यावत् , तमेवार्थम र्थान्तरन्यासेन द्रढयति / भाग्यभाक-भाग्यं शुभात्मकविधिं भजति सेवते श्रयतीति यावत् , भाग्यभाक् / जनः-लोकः / क-कुत्र / भोगम-सुखम् / न-नहि / आप्नोति-अधिगच्छति, लभते इति यावत् , अपि तु सर्वत्रैव भोगं प्राप्नोति यो हिं सुखी स स्थानान्तरे गतोऽपि सुखं प्राप्नोति, यस्तु दुःखी स स्थानान्तरे गतोऽपि दुःख्येवेति वा, सुखिनस्तस्य वनेऽपि सुखप्रतिवादनं प्रसङ्गकृतमवसेयम् // 40 //