________________ 236 ] श्रीननषषीयमहाकाव्ये श्रीशान्तिनाषचरित्र तस्यास्तटम् तीरम् विलासवापीतटम्, तत्र वीचिवादनं तरङ्गनादो विलासवापीतटवादनम् तस्मात्तथा / रसेन-रागेण / लीलासु-क्रीडासु / उद्भूतविकारकारणम्-उदभूतं समुत्पन्नं विकारकारणं यस्य स उद्भूतविकारकारणस्तन्तथा / न-नहि / चकार-कृतवान् // 37 // मनो मनोभूवशवर्ति नाऽभवत् , पिकालिगीतेः शिखिलास्यलाघवात् / सरोरुहामोदविनोदतोऽप्यहो, महोदयार्थेऽस्य निलीनतावशात् // 38 // अन्वयः–महोदयार्थे, निलीनतावशात् , अस्य, मनः पिकालिगीतेः, शिखिलास्यलाघवात् , अपि, सरोरुहामोदविनोदतः, मनोभूवशवर्ति, न, अभवत् , अहो ! // 38 // वृत्तिः-महोदयार्थे-महानतिशयितश्चासावुदयोऽभ्युदयो महोदयो महानन्दः, मोक्ष इति यावत् , स एवार्थः प्रयोजनम् महोदयार्थस्तस्मिंस्तथा / निलीनतावशात-निरतत्वाद्धेतोः, सावधानमवस्थित्वाद्धेतोरिति यावत् / अस्य-भगवतः शान्तिनाथस्येति यावत् / मन:-मानसम् , चित्तमिति यावत् / पिकालिगीतेः-पिकानां कोकिलानामालिः पङ्क्तिः श्रेणिरिति यावत् / पिकालिस्तस्या गीतिर्गानं पिकालिगीतिस्तस्यास्तथा / शिखिलास्यलाघवात्-शिखा बर्ह पिच्छमिति यावत् अस्त्येषामिति शिखिनो मयूरास्तेषां लास्यलाघवम् नृत्यचातुर्य्यम्-शिखिलास्यलाघवम् / तस्मात्तथा / अपि-सम्भावनायाम् / सरोरुहामोदविनोदत:-सरसि कासारे रोहन्त्युत्पद्यन्ते इति सरोरुहाणि कमलानि तेभ्य आमोदविनोदा आनन्दसम्मदाः सरोरुहामोदविनोदास्तेभ्यस्तथा / मनोभूवशवर्ति-कामपराधीनम् / न-नहि / अभवत्-सञ्जातम् / अहो !-महाश्चर्यम् / / 38 / / यथाऽऽलये तालविशालयन्त्रज-ध्वनिश्च गान्धर्वविशेषनर्तनात् / वनेऽपि तौयंत्रिकमारराध तं, तथामृदङ्गोदितवेणुवादनात् // 39 // अन्वयः--गान्धर्वविशेषनर्तनात् , यथा, आलये, तालविशालयन्त्रजध्वनिः, तम् , आरराध, वने, अपि, मृदङ्गोदितवेणुवादनात् , तौर्यत्रिकम् , (तम् आरराध) // 39 // वृत्तिः-गान्धर्वविशेषनर्तनात-विशिष्यते साधारणादतिरिच्यते इति विशेषम्, विशिष्टमित्यर्थः, तच्च तन्नर्तनम् लास्यम् विशेषनर्तनम् , गन्धर्वाणां देवयोनिविशेषाणामिदं गान्धर्वम् तञ्च तद्विशेषनर्तनम् गान्धर्वविशेषनर्तनम् तस्मात्तथा / यथा-येन प्रकारेण / आलये-निलये, सद्मनीति यावत् / तालविशालयन्त्रजध्वनि:-तालो गीतकालक्रियामानम् विशालं विशङ्कटञ्च तद्यन्त्रम् वस्तुनिर्माणसाधनविशेषद्रव्यम् , तालश्च विशालयन्त्रश्च तालविशालयन्त्रे, ताभ्यां जातस्तालविशाल