________________ -बापाविषयामृतसूरीश्वरकृतायां विहिनोदिन्या पतुः सर्गः [235 तस्य गुरुराचार्यः महान् वा निजगद्गुरुस्तन्तथा / स्वरागयुक्त:-स्वीयानुरागसंवलितैः / पन्नवैःवचनविस्तरैः / सुरसालपक्षे च लोहितः किसलयैरिति बोध्यम् / अवन्तम्-रक्षयन्तम् / सुरसाल:देवपादपम् , कल्पवृक्षमिति यावत् / इव-यथा / अमन्यत-अवाबुध्यत // 35 / / स्वतः प्रशान्तं शतशो मृगीदृशां, निशान्तमाप्तं द्विविधं क्षमाधनम् / स्वरूपनिष्ठं वशमातनिष्ट न, प्रतीष्टकामज्वलदम्रजालकम् // 36 // अन्वयः-प्रतीष्टकामज्वलदस्त्रजालकम् , शतशः, मृगीदृशाम् , निशान्तम् , स्वतः, प्रशान्तम् , आप्तम् , द्विविधम् , क्षमाधनम् , (अत एव) स्वरूपनिष्ठम् , (तम्) वशम, न, आतनिष्ट // 36 // वृत्तिः-प्रतीष्टकामज्वलदस्त्रजालकम-ज्वलत् आरक्तश्च तत् अस्त्रजालकमस्त्रसमूहो ज्वलदस्त्रजालकम् , कामस्य-मदनस्य ज्वलदस्त्रजालकम् , कामज्वलदस्त्रजालकम् , प्रतीष्टमङ्गीकृतञ्च तत् कामज्वलदस्त्रजालकम् , तथा / शतशः-शतपदस्यानेकपरत्वाद्वहुशः / मृगीदृशाम्-हरिणलोचनानाम् / निशान्तम्-गृहम् / अपीति शेषः / स्वतः-सम्बद्धत्वात्स्वयमेव, न गुरूपदेशतः। प्रशान्तम्कामादिनिवृत्तम् / आप्तम्-यथार्थवक्तारम् / आप्तो नामानुभवेन वस्तुतत्त्वस्य कास्न्येन निश्चयवान रागादिवशादपि नान्यथावादीति चरके पतञ्जलिः / द्विविधम्-द्विप्रकारम् / क्षमाधनम्-झमापृथिवी, धन-सम्पत्तिर्यस्य स क्षमाधनो राजा, क्षमा शान्तिस्तितिक्षा धनं यस्य स क्षमाधनः शमी सन्तथा, राजानं शमिनं वेति भावः / (अत एव ) स्वरूपनिष्ठम्-आत्मसंस्थम् / (तम्-भगवन्तं शान्तिनाथम् ) वशम्-आयत्तम् , स्वाधीनमिति यावत् / न-नहि / आतनिष्ट-व्यधात् , अकार्षीदिति .यावद // 36 // विलासवापीतटवीचिवादना-दनाविशन्मानसमेनमेनसि / रसेन लीलासु मनस्विनीजन-श्चकार नोद्भूतविकारकारणम् // 37 // अन्वयः-मनस्विनीजनः, एनसि, अनाविशन्मानसम् , एनम् , विलासवापीतटवीचिवादनात् , रसेन, लीलासु, उद्भूतविकारकारणम् , न, चकार // 37 // वृत्तिः-मनस्विनीजन:-प्रशस्तं मनोऽन्तःकरणम् अस्त्यस्या इति मनस्विनी स एव जनो लोकः मनस्विनीजनः। एनसि-पाप्मनि दुष्कृते इति यावत् / अनाविशन्मानसम्-अनाविशत् प्रवेशमलभमानं मानसं हृदयं मन इति यावत् यस्य सोऽनाविशन्मानसस्तन्तथा / एनम्-भगवन्तं शान्तिनाथम् / विलासवापीतटवीचिवादनाव-विलासार्थ केलिकलापार्थ वापी दीर्घिका विलासरापी