________________ 234 . श्रीबननैषधीयमहाकाम्ये श्रीशान्तिनापपरिचे ज्ञानशक्तौ / अनुगः-अनु पश्चाद् गच्छतीत्यनुगः, अनुगामीत्यर्थः / केवलज्ञानावाप्त्यनन्तरमशोकः सर्वदानुगो भवतीति भावः // 33 // पुरारिरूपेऽस्य पुरारिरूपिणो, गताञ् शरण्य गृहशोचिनोऽध्वगान् / चकार चक्री विषयैः प्रतिष्ठिता-नशल्यवात्सल्यमतिर्महत्यहो ! // 34 // अन्वयः-पुरा, पुरारिरूपे, ( अस्मिन् ) अभ्य, अरिरूपिणः, शरण्यम् , गतान् , गृहशोचिनः, अध्वगान, चक्री, विषयः, प्रतिष्ठितान् , चकार, अहो ! महति, अशल्यवात्सल्यमतिः // 34 // वृत्तिः-पुरा-पूर्वम् , दिग्विजयार्थप्रयाणकाले ! पुरारिरूपे-नगरशत्रुरूपे / ( अस्मिन् भगवति शान्तिनाथे) आक्रमणसमवे समाक्रमणीयराजनगरशत्रुत्वस्य तस्मिन्निर्विवादात् / अस्य-भगवतः शान्तिनाथस्य / अरिरूपिणः-शत्रुभूतान् , प्रतिपक्षात्मन इति यावत् / शरण्यम्-शरणे रक्षणे साधुः शरण्यस्तन्तथा। गतान्-प्राप्तान् / गृहशोचिनः-स्त्रीशोचिनः 'गृहा दारेषु सम्मनि' इत्यनेकार्थः / 'न गृहं गृहमित्याहु-र्गृहिणी गृहमुच्यते' इत्यभियुक्तोक्तश्व / अध्वगान्-अध्वानं पन्थानं गच्छन्तीत्यध्वगाः पथिकास्तांस्तथा / “नाम्नो गमः खड्डौ च" 5 / / 131 // इत्यनेन 'ड' प्रत्ययः / चक्री- चक्रवर्ती भगवाय् शान्तिनाथः / विषयैः देशैः भोगैर्वा / प्रतिष्ठितान-समारोपितमूलान् , प्रशस्तानिति यावत् / चकार-कृतवान् / अहो !-आश्चर्यम् / महति-महानुभावे / अशल्यवात्सल्यमतिःशल्यं शङ्कु न शल्यमशल्यम् अमर्मच्छेदितेति यावत्, अशल्यश्च वात्सल्यञ्च अशल्यवात्सल्ये ताभ्यां सहिता मतिबुद्धिस्तथा // 34 // अमन्यतावन्तमिवैष पल्लवैः, स्वरागयुक्तः सुरसालमङ्गिनः / . हितं गिरन्त त्रिजगद्गुरुं जनो, जिनं विमुक्तः प्रभुशोभया भयात् // 35 // अन्वयः-प्रमुशोभया, भयात् , विमुक्तः, एषः, जनः, हितम् , गिरन्तम् , त्रिजगद्गुरुम् , स्वरागयुक्तैः, पल्लवैः, अङ्गि नः, अवन्तम् , सुरसालम् , इव, अमन्यत / / 35 // वृत्तिः-प्रभुशोभया-प्रकर्षेण भवतीति प्रमुःस्वामी। “श-सं-स्वयं-वि-प्राद् भुवो डुः" 5 / 2184 // इत्यनेन डु' प्रत्ययः / तस्य शोभा च्छविः प्रमुशोभा। तया तथा / भयाव-भयभीतेः / विमुक्तः-विरहितः / जीवनमुक्त इत्यर्थः, मिथ्याज्ञानजन्यवासनाराहित्ये सति जीवित्वं तत्त्वमित्यनुसन्धेयम् / एषः-अयम् , मिथ्याज्ञानजन्यवासनारहितः कश्चिदित्यर्थः। जन:-लोकः / हितम्-हितं कल्याणमस्त्यस्मिन्निति हितम् , वचनमित्यर्थः / गिरन्तम्--उच्चारयन्तम् / त्रिजगद्गुरुम्-त्रयाणां जगतां भुवनानां समाहारनिजगत्