________________ बापाविषयामृतसूरीश्वरकृतायां वितिनोदिन्या चतुर्वः सर्वः [233 दिदृक्षया चन्द्रमसो वनेऽर्हता, न्यषेध्यतेशेन पिकस्वरोऽमुना / यतो मृगाङ्कत्वसुहृद्विधौ रिपुः, कुहूरुताहूयत चन्द्रवैरिणी // 32 // अन्वयः--वने, ईशेन, अमुना, अर्हता, चन्द्रमसः, दिहक्षया, पिकस्वरः, न्यषेध्यत, यतः, मृगाङ्कत्वसुहृद्विधौ, रिपुः, चन्द्रवैरिणी, कुहूरुता, आहूयत // 32 // . वृत्तिः-वने-कानने / ईशेन-प्रभुणा / अमुना-विप्रकृष्टेन / अर्हता-तीर्थकृता, पञ्चमचक्रवर्तिना भगवता शान्तिनाथेनेति यावत् / चन्द्रमस:-चन्द्रस्य / दिदृक्षया दृष्टुमिच्छा दिदृक्षा तया तथा, दर्शनाभिलाषेणेति यावत् / पिकस्वरः-पिबति चूतरसमिति पिकः कोकिलः, “पापुलि" (उणा० 41) इति 'किदिकः' प्रत्ययः / अपि कायतीति वा पिकः पृषोदरादित्वात् , तस्य स्वरः शब्दविशेषः पिकस्वरः / न्यषेध्यत-निषेधितः, निवारित इति यावत् / यतः-यस्माद्धेतोः / मृगाङ्कत्वसुहृद्विधौ-मृगो-हरिणोऽङ्कश्चिह्न लाञ्छनं इति यावत् , यस्य स मृगाङ्कश्चन्द्रः तीर्थकदपीत्यतः, मृगाङ्कत्वेन सुहृत् मित्रम् मृगाङ्कत्वसुहृत् स चासौ विधुश्चन्द्रो मृगाङ्कत्वसुहृद्विधुस्तम्मिस्तथा / रिपुः-शत्रुः / चन्द्रवैरिणी-अमावास्या / कुहूरुता-कुहूः कुहूः इति रुत् शब्दो यस्य तेन तथा, पिकेन / आहूयत-आह्वास्यते, आकारयिष्यते अन्वयानुपपत्त्या तात्पर्यानुपपत्त्या वा लझणया भूतकालिकप्रत्ययस्यापि भविष्यत्कालार्थबोधकत्वात्तदभिप्रायेणैव भविष्यकालिकप्रयोगस्योपादानं न्याय्यमिति एवोदृङ्कितः // 32 // अशोकमर्यान्वितनामताशया, स्वकानने तं निदधे स तन्मये / ... अनुक्रमेणाभ्युचिते ह्यनुक्रमात् , स केवले बोधबले यतोऽनुगः // 33 // अन्वयः-सः, तन्मये, स्वकानने, अर्थान्वितनामताशया, तम्, अशोकम् , निदधे, हि, यतः, सः, अनुक्रमेण, अभ्युचिते, क्रमात् , अनु, केवले, बोधवले, अनुगः // 33 // वृत्तिः सः-चक्रित्वादिना प्रसिद्धो भगवान्छान्तिनाथः / तन्मये-सोऽशोकः प्रचुरोऽस्मिनिति तन्मयम् तस्मिंस्तथा / स्वकानने-स्वीयवने / अर्थान्वितनामताशया-अर्यान्वितमन्वर्थ नामाभिधानं यस्य सोऽर्थान्वितनामा, तस्य भावोऽर्थान्वितनामता, तस्य आशा अर्यान्वितनामताशा, तया तथा / तम्-अर्थान्वितनामानम् / अशोकम्-कङ्केल्जिम् / निदधे-स्थापितवान् / हि-निश्चयेन / यतः-यस्माद्धेतोः / स:-भगवान शान्तिनाथः / अनुक्रमेण-परिपाट्या / अभ्युचिते-उपचयमापने, समभ्युदिते इति यावत् / क्रमात-आचारात् / अनु-पश्चात् / केवले–केवलात्मके / बोधबले