________________ 232 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र द्धिदस्त स्मिँस्तथा / स्वामिनि-प्रभौ / अद्भुताय-आश्चर्याय / न-नहि / अफलत्-समकल्पत, जातमिति यावत् // 26 // कचिज्जलक्रीडनकेऽपि भूभुज-स्तदेव साक्षादमृतांशुमाननम् / निरीक्ष्य युक्ताम्बुजशङ्कयाऽरजा, उपेयुषी राजमरालमण्डली // 30 // अन्वयः--क्वचित् , जलक्रीडनके, अपि, भूभुजः, साक्षात् , अमृतांशुम् , एव, तत् , आननम्, निरीक्ष्य, अरजाः, राजमरालमण्डली, युक्ताम्बुजशङ्कया, उपेयुषी // 30 // वृत्तिः क्वचित्-कुत्रचित् / जलक्रीडनके-सलिलक्रीडायाम् / अपि-सम्भावनायाम् / भभुजः-भुवं पृथिवीं भुनक्तीति भूभुक् तस्य तथा, राज्ञः शान्तिनाथस्येति यावत् / साक्षातप्रत्यक्षं यथास्यात्तथा / अमृतांशुम्-अमृतसंपृक्तः सुसंवलितोंऽशुः किरणो यस्य सोऽमृतांशुश्चन्द्रस्तन्तथा / एव-अवधारणार्थकमव्ययम् / तव-प्रसिद्धम्, श्रीमच्छान्तिनाथसम्बन्धीति यावत् / आननम्-वदनम्, मुखमिति यावत् / निरीक्ष्य-समवलोक्य / अरजा:-न रजो मलं यस्याः साऽरजाः, निर्मलेत्यर्थः / राजमरालमण्डली-राजहंससमूहः / उपेयुपी-सामीप्यमुपगता / शान्तिनाथमुखमवलोक्य 'चन्द्रोऽयम्' इति / भ्रान्तिमापेति भावः भ्रान्तिमानलङ्कारः / “भ्रान्तिमानन्यसंवित्ततुल्यदर्शने" इति तदलङ्कारः लक्षणमाह काव्यप्रकाशकारो मम्मटोपाध्यायः // 30 // कचित्तथाऽसौ मतिशालिमालयो-पवीणितस्तत्वणनैपुणे गुणे / पिकेन रोषारुणचक्षुषा मुहुः, कृताऽप्यवज्ञा विफला यथाऽभवत् // 31 // अन्वयः-क्वचित् , असौ, मतिशालिमालया, तथा, उपवीणिता, यथा, तत्कणनैपुणे, गुणे, रोषारुणचक्षुषा, पिकेन, मुहुः, कृता, अपि, अवज्ञा, विफला, अभवत् // 31 // वृत्तिः-चित्--कुत्रापि / असौ-भगवान् शान्तिनाथः / मतिशालिमालयामत्या बुद्ध्या शालंते शोभन्ते मतिशालिनस्तेषां माला पङ्क्तिः, समूह इति यावत् , मतिशालिमाला तया तथा / तथा-तेन प्रकारेण / उपवीणित:-वर्णितः, प्रशंसित इति यावत् / यथा-येन प्रकारेण / तत्कणनैपुणे- तत्कणस्य तत्प्रक्वाणस्य नैपुणं निपुणता तत्क्वणनैपुणम् तस्मिंस्तथा / गुणे-प्रशंसनीयत्वात्मकगुणे / रोषारुणचक्षषा-रोषेण-क्रोधेन, अरुणे-रक्ते, चक्षुषी-नयने यस्य स रोषारुणचक्षुस्तेन तथा / पिकेन-कोकिलेन / मुहुः-पुनः पुनः / कुता-विहिता अपि-सम्भावनायाम् / अवज्ञातिरस्कारः / विफला-व्यर्था / अभवत्-अभूत् // 31 //