________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वदिनोदिन्या चतुर्षः सर्गः [231 यथेष्टकार्यस्य स सर्जनाजने, सनिर्भर निर्भयसकथे पथे / . सदैव राजा प्रिययोगिनेऽङ्गिने, वियोगिनेऽदत्त न कौमुदीमुदः // 28 // अन्वयः–जने, यथेष्ट कार्य्यस्य, सर्जनात् , सदा, एव, निर्भयसंकथे, पथे, सनिर्भरम् , (स्थितः) सः, राजा, प्रिययोगिने, (च) वियोगिने, अङ्गिने, कौमुदीमुदः, न, अदत्त // 28 // ___ वृत्तिः–जने-लोके, प्रजायामिति यावत् / यथेष्टकार्य्यस्य-यथाभिलषितकर्मणः / प्रजाभिलाषोचितकार्य्यस्येति यावत् / सर्जनात-सम्पादनात् / सदैव-सर्वदा खलु / निर्भयसंकथे-निर्भयं भयरहितम् यथास्यात्तथा संकथा सम्यगालापः गोष्ठी वा यत्र स निर्भयसंकथस्तस्मिंस्तथा / पथे-मार्गे / सनिर्मरम्-सातिशयं यथास्यात्तथा। स्थित इति शेषः / सः-प्रसिद्धश्चक्रितया षोडशतीथकृत्तया वा / राजा-चन्द्र इव राजा नृपः, भगवान् शान्तिनाथ इति यावत् / प्रिययोगिने-प्रियेण हृद्येन जनेन योगः सम्बन्धः प्रिययोगः सोऽस्त्यस्येति प्रिययोगी तस्मै तथा / (च-पुनः) वियोगिनेविरहिणे विप्रयुक्तायेति यावत् / अङ्गिने--प्राणिने जनायेति यावत् / कौमुदीमुदः-कौमुदीप्रयुक्ताश्चन्द्रिकाप्रयोज्या मुद आनन्दविशेषाः कौमुदीमुदः, “मयूरव्यंसकेत्यादयः" 3 / 1 / 116 // इत्यनेन शाकपार्थिवादेराकृतिगणत्वान्मध्यमपदलोपी तत्पुरुषसमासः, तास्तथा / न-नहि / अदत्त-दत्तवान् / नत्रः काकर्थकत्वादत्तवानेवेति भावः / राजेव राजा भगवान् शान्तिनाथः प्रिययोगिने बियोगिने चापि कौमुदीमुदमदत्तेति, चन्द्रस्य वियोगिसन्तापकत्वात् उपमानचन्द्रापेक्षयोपमेये नृपे उभयानन्ददायकत्वात्मकाऽऽधिक्यवर्णनाद् व्यतिरेकालङ्कारः / “उपमानाद्यदन्यस्य व्यतिरेकः स एव सः" इति काव्यप्रकाशकारो मम्मटः // 28 // अयोगभाजोऽपि नृपस्य पश्यता, यथेष्टदानं स्वजनेन मन्त्रणे / कृतेऽफलत् कामनया धुरत्नवत् , स्वसिद्धिदे स्वामिनि नाद्भुताय तत् // 29 // अन्वयः-अयोगमाजः, अपि, नृपस्य, यथेष्टदानम , पश्यता, स्वजनेन, कामनया, मन्त्रणे, कृते, (सति) तत् , स्वसिद्धिदे, स्वामिनि, अद्भुताय, न, अफलत् // 29 // वृत्तिः-अयोगमाज:-न योगं प्रियतमासंयोगं भजतीत्ययोगभाक् तस्य तथा / अपिसम्भावनायाम् / नृपस्य-राशः, शान्तिनाथस्येति यावत् / यथेष्टदानम्-यथेष्टं पर्याप्तं निकाममिति यावत् / दानम्-दीनेभ्यो वितरणम् , यथेष्टदानम् तत्तथा / पश्यता-कालोकयता / स्वजनेनमात्मीयपुरषेण / कामनया-इच्छया, अभिलाषेणेति यावत् / मन्त्रणे-विचारणे / कृते-विहिते / (सति ) वत्-मन्त्रणम् / स्वसिद्धिदे-स्वस्य धनस्य सिद्धिनिष्पत्तिः स्वसिद्धिस्तां ददातीति स्वसि