________________ 230 ] श्रीजननैषधीयमहाकाव्ये श्रीवान्तिनाथचरित्रे अन्वयः- अत्र, असौरभे, अपि, ससौरभीभवत् , अहर्महः, पुष्परसैः, सुधीकृतम् , असो, ससौख्यम् , शुचेः, समये, अपि, मनसा, अपि, विभासमानः, अमन्यत // 26 // वृत्तिः-अत्र-चक्रवर्तिशान्तिनाथराजधान्याम् / असौरमे-सुष्ठु रमते इति सुरभिर्वसन्तस्तस्य भावः सौरभम् , न सौरभमसौरभम् तस्मिंस्तथा / अपि-सम्भावनायाम् / ससौरभीभवत्असौरभम् ससौरभं भवत् सम्पद्यमानम् ससौरभीभवत् / “कृभ्वस्तिभ्यां कर्मकर्तृभ्याम्” / 2 / 126 / / इत्यनेन 'च्विः' प्रत्ययः / “ईश्चवाववर्णस्यानव्ययस्य” 4 / 3 / 111 // इत्यनेन चौ परेऽवर्णस्य ईकारान्तादेशः / अहर्महः-दिवसतेजः। पुष्परसैः-मकरन्दैः / सुधीकृतम्-अमृतीकृतम् / असोभगवान् शान्तिनाथः / ससौख्यम्-सौख्येन निर्वृत्या सातेनेति यावत्, ससौख्यम् यथास्यात्तथा / शुचे:-आषाढस्य / समये-काले / अपि-सम्भावनायाम् / मनसा-अन्तःकरणेन / अपि-सम्भावनायामेव / विभासमानः-विशेषेण भासमानो राजमानः, शोभमान इति यावत् / अमन्यत-अवाबुध्यत लोकैरज्ञायतेति यावत् / शुचेः-सूर्य्यात् अपि / विभासमानः-विभया असमानोऽतुल्यो विभासमानः, सूर्यादप्यधिकतेजोवानिति ज्ञेयोऽर्थः / / 26 / / तपात्यये नन्दनि तदिनं घन-घनाघनैः श्यामलिते नभस्यपि / विनिर्मितं केतकरेणुभिः सितं, स्वतेजसा वाऽनुबभूव सस्मितम् // 27 // अन्वयः-नन्दिनि, तपात्यये, घने, घनाघनैः, नभसि, अपि, श्यामलिते, (सति) तद्दिनम् , केतकरेणुभिः, सितम् , विनिर्मितम् , स्वतेजसा, सस्मितम् , वा, अनुबभूव // 27 // वृत्तिः-नन्दिनि-नन्दयत्यानन्दयति तच्छीलो नन्दी, तस्मिंस्तथा सर्वलोकानन्दकारिणीति यावत् / तपात्यये-तपतीति तपः “अच्" 5 / 1 / 39 // इत्यनेन 'अच्' प्रत्ययः, ग्रीष्मकालः, तस्य अत्ययो, नाशो यत्र स तपात्ययो वर्षाकालः, श्रावणभाद्रोभयभासव्यापिकालविशेष इति यावत्, तस्मिंस्तथा / धनैः-सान्द्रः, निबिडैरिति यावत् / घनाघनैः-घ्नन्ति मारयन्ति प्रवासिन इति घनाघना मेघाः “चराचरचलाचल" 4 / 1 / 13 // इत्यादिना अजन्तो निपापितः, तैस्तथा / नभसिआकाशे / अपि-सम्भावनायाम् / श्यामलिते-श्यामल इवाचरितं श्यामलितम् तस्मिँस्तथा सतीति शेषः / तद्दिनम्-तत् वर्षाकालिकञ्च तद्दिनं दिवसस्तदिनम् / केतकरेणुभिः-चाम्पेयपरागैः / सितम्-श्वेतम्, शुक्लमिति यावत् / विनिर्मितम् -विरचितम् , सम्पादितमिति यावत् / स्वतेजमानिजप्रतापेन / सस्मितम्-स्मितमिषद्धासस्तेन सहितं सस्मितम् / वा-इव / अनुबभूव-अनुभूतवान् // 27 //