________________ -बाचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां चतुर्थः सर्गः [ 229 - विधा, विसर्जन , तान् , वन्दमानान् , अभिनन्दति, स्म // 24 // वृत्तिः-समाजनाधीननिलीनचेतसः-अधीनमायत्तश्च तन्निलीनं संलग्नम् अधीननिलीनम् / सभाजनेषु-पारिषदेषु, अधीननिलीनम् चेतो मानसं येषाम् , अथवा सभाजनेषु-अधीनं निलीनश्च चेतो येषाम् ते सभाजनाधीननिलीनचेतसस्ताँस्तथा / सभाजनान्-सभ्यान, सामाजिकानिति यावत् / विशेषतः-विशेषरूपेण / वीक्ष्य-समवलोक्य / सः-भगवानहन शांतिनाथ इति यावत् / यथार्ह मानेन यथायोग्यसम्मानेन / विधा-प्रकारत्रयेण / कायिकवाचिकमानसिकात्मिकैरिति यावत् विसर्जन:त्यागैः दीनानुद्दिश्य कायिकवाचिकमानसिकयथोचितसम्मानपुरःसरं धनादिप्रतिपादनैरिति यावत् / तान्-प्रसिद्धान्-तनूजपुत्रानुजतत्सुतादीनिति यावत् / बन्दमानान्-बन्दनशीलान् वन्दना वक्तुकामान् ! विदधद्वन्दनान् इति यावत् / अभिनन्दति स्म-अभ्यनन्दत् // 24 // नृपाय तस्मै हिमित वनानिलै-स्तपेऽपि धाराधरयन्त्रबेश्मनि / ययावहोरात्रकदम्बकं सुखं, स्वराजधान्यां सततोदयोन्मुखम् // 25 // अन्वयः-तस्मै, नृपाय, तपे, अपि, धाराधरयन्त्रवेश्मनि, वनानिलैः, हिमितम् , सततोदयोन्मुखम् , अहोरात्रकदम्बकम् , सुखम् , स्व, राजधान्याम् , ययौ // 25 // वृत्तिः-तस्मै-पञ्चमचक्रिवर्तित्वेन षोशडतीर्थकरत्वेन च, भुवनत्रयप्रसिद्धाय / नृपायराज्ञ, शान्तिनाथायेति यावत् / तपे-प्रीष्मौ / अपि-सम्भवनायाम् / धाराधरयन्त्रवेश्मनिधारायाः जलप्रपातस्य, धरो-धर्ता, धाराधरः स चासौ यन्त्रः साधनविशेषः, धाराधरयन्त्रस्तस्य वेश्म निकेतनम् , धाराधरयन्त्रवेश्म तस्मिँस्तथा / वनानिलैः-वनस्य काननस्य अनिलाः पवना वनानिलास्तैस्तथा / हिमितम्-हिमं शीतं सञ्जातमस्य हिमितम्, “तदस्य सञ्जातं तारकादिभ्य इतः” 7 / 1 138 // इत्यनेन 'इतः प्रत्ययः / सततोदयोन्मुखम्-उदयाय अभ्युदयाय उन्मुखम् उत्कण्ठितम् उदयोन्मुखम् , सततं-सर्वदा उदयोन्मुखम् , सततोदयोन्मुखम् / अहोरात्रकदम्बकम्-अहानि-- दिनानि च रात्रयो निशाश्व अहोरात्रास्तेषां कदम्बकम् समूहम् अहोरात्रकदम्बकम् / सुखम्-अनायासेन, आनन्दपूर्वकं यथास्यात्तथा / स्वराजधान्याम्-धीयन्तेऽस्यामिति धानी, राज्ञो धानी राजधानी, प्रधाननगरम्, स्वस्य सा तस्याँ तथा / ययौ-जगाम, अगच्छत् , गतम्-व्यतीतमिति यावत् // 25 // असौरभेऽप्यत्र ससौरभीभवत्, सुधीकृतं पुष्परसैरहमहः / असो ससौख्यं समये शुचेरपि, विभासमानो मनसाऽप्यमन्यत // 26 //