________________ 228 ] श्रीजैननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे अबरोधम् / आप्य-प्राप्य / 'अन्तःपुरमागत्य' इति यावत् / चिरागतः-दीर्घकालप्रत्यागतः, चिरकालतो भवन समागत इति यावत् / अचिरात-इटिति / सवित्रीम-समुत्पादिकाम् , जननीमित्यर्थः / ताम्-लोकविश्रुतामिति यावत् / अचिराम्-तदाख्याम् , निजमातरम् / नतः-प्रणतः / इति // यथामुद्रितं तु-"नृपोऽप्यतोऽन्यः पुरमाप्य सो नतो” इति पाठस्तु प्रामादिकः प्रतीयते नकारात्मकव्यञ्जनाव्यवहितम्पूर्वत्वविशिष्टस्य तच्छब्दप्रकृतिकस्य सेः, “एतदश्च व्यञ्जनेऽनग्-नसमासे" 1 / 3 / 46 // इत्यनेन नित्यलोपविधानात् / प्रतीतिशेषः // 22 // सलाजराजन्नवमौक्तिकौक्तिका-शिषां प्रमारैरवरोधसङ्गताम् / कथं न धात्रीमतिमात्रनामितैः, स नाभ्यनन्दद् विभवैः सनाऽमितैः॥२३॥ अन्वयः-सलाजराजन्नवमौक्तिकौक्तिकाशिषाम् , प्रसारः, अवरोधसङ्गताम् , धात्रीम् , अतिमात्रनामित, सना, अमितः, विभा, सना, कथम् , न अभ्यनन्दत् // 23 // वृत्तिः-सलाजरोजन्नवमौक्तिकौक्तिकाशिषाम्-नवानि-नूततानि च तानि मौक्तिकानि मुक्ताफलानि, नवमौक्तिकानि राजन्ति शोभमानानि च तानि नवमौक्तिकानि, राजन्नवमौक्तिकानि, लाजैराचारलाजैस्तण्डुलविशेषैः सहितानि सलाजानि, सलाजानि च तानि राजन्नवमौक्तिकानि, सलाजराजन्नवमौक्तिकानि, तानि च औक्तिकाशिषश्च वाचिकशुभाशंसनानि च सलाजराजन्नवमौक्तिकौक्तिकाशिषस्तासांत्तथा / प्रसारैः-प्रसारणानि, प्रसारास्तैस्तथा प्रतिपादनैरितियावत् / अवरोधसङ्गताम्अवरोधेऽन्तःपुरे सङ्गता सम्मिलिताऽवरोधसङ्गता, तान्तथा / धात्रीम-जननीम्-मातरमिति यावत् / अतिमात्रनामितैः-अतिमात्रमतिशयेन नामिता नम्रिता यैस्ते अतिमात्रनामितास्तैस्तथा / सना-सर्वदा सदा सनाऽनिशं शश्वत्' इति हैमः। अमितैः-अपरिमितैः, इयत्तया परिच्छेतुमशक्यैरिति यावत् / विभवैः-ऐश्वर्यैः, सम्पत्तिभिरिति यावत् / सना-सदा / अथवा नयति प्रापयति, धर्ममार्गमिति वा "नियो डित्" (उणा० 854) इति ऋः, ना, नेता, सन्, सः, प्रसिद्धश्चक्रीति च्छेदोऽनुसन्धेयः / कथम्-केन प्रकारेण / न-नहि / अभ्यनन्दत्-अन्तर्भावितणिगर्थत्वादभ्यनन्दयदित्यर्थः // इति / अत्र "सना-भिनन्देद् विभवैः सनामितैः” इति पाठः साधीयान् / प्रतिभातीति सुधीभिरुन्नेयम् // 23 // सभाजनाधीननिलीनचेतसः, सभाजनान वीक्ष्य विशेषत--स्त्रिधा / यथार्हमानेन समं विसर्जनैः, स वन्दमानानभिनन्दति स्म तान् // 24 // अन्वय:--समाजनाधीननिलीनचेतसः, सभाजनान् , विशेषता, पीक्य, सः, यथार्हमानेन, समम् ,