________________ प्राचार्यविजयामृतसूरीश्वरकृतायां विद्वदिनोदिन्यां चतुर्थः सर्गः।। [ 227 पुष्पेषु / नभस्वतः-पवनस्य / केलयः-क्रीडाः, विलसनानि इति यावत् / प्रतिष्ठता-प्रतिष्ठा नीताः // 20 // गता यदुत्सङ्गतले विशालतां, तनूजपौत्रानुजपुत्रतत्सुताः / . अलकृताश्चेभकृताधिगेहणाः, पुरस्सरा रेजुरदःप्रसत्तये // 21 // अन्वयः-यदुत्सङ्गतले, तनूजपौत्रानुजपुत्रतत्सुताः, विशालताम् , गताः, अलङ्कृताः, च, इभकृताधिरोहणाः, (ते) पुरस्सराः, (सन्तः) अदः प्रसत्तये, रेजुः // 21 // वृत्तिः -यदत्सङ्गतले–यस्य भगवतः शान्तिनाथस्य उत्सङ्गः क्रोडो यदुत्सङ्गस्तस्य तलम्अधोभागो यदुत्सङ्गतलम् , तस्मिंस्तथा / तनूजपौत्रानुजपुत्रतत्सुताः-तनूजाः-पुत्राश्च, पौत्रा नप्तारश्च अनुजपुत्रा भ्रातृसुताश्च तत्सुताः भ्रातृपुत्रपुत्राश्चेत्येतेषामितरेतरयोगद्वन्द्वसमासे तनूजपुत्रानुजपुत्रतत्सुताः / विशालताम्-वृद्धिम् , अवस्थाधिकतामिति यावत् / गताः-प्राप्ताः / अलङकृताः-विभूषणवि. भूषिताः / च-पुनः / इभकृताधिरोहणाः-इभेषु गजेषु कृतं विहितमारोहणमधिरोहणं यैस्ते, इभकृताधिरोहणा, गजारूढा इति यावत् / (ते-तनूजपुत्रानुजपुत्रतत्सुताः) पुरस्सरा:-अग्रसराः / सन्त इति शेषः / अदःप्रसत्तये-अमुष्य, भगवतः शान्तिनाथस्य, प्रसत्तिः प्रसन्नता, अदःप्रसत्तिस्तस्यै तथा / रेजुः-दिदीपिरे, शुशुभिरे इति यावत् // 21 // नमन्ति नूनं विनयेन मेदिनी, द्रुमाः शिरोभिः फलगौरवेण ताम् / नृपोऽप्यतोऽन्तःपुरमाप्य तां नतो-ऽचिरात् सवित्रीमचिरां चिरागतः // 22 / अन्वयः-द्रुमाः, फलगौरवेण, विनयेन, ताम् , मेदिनीम् , नूनम् , शिरोभिः, नमन्ति, अतः, नृपः, अपि, अन्तःपुरम् , आप्य, चिरागता, (सन् ) अचिरात् , सवित्रीम् , (ताम्) अचिराम् , नतः // 22 // वृत्तिः-द्रमा:-वृक्षाः / फलगौरवेण-फलैः प्रसवैः गौरवम्-गुरुता, भारातिशय इति यावत्, फलगौरवम् तेन तथा / विनयेन-नम्रतया। ताम्-प्रसिद्धाम् / मेदिनीम-पृथिवीम् / नूनं-निश्चयेन / शिरोभिः-मस्तकैः। नमन्ति-प्रणमन्ति, नम्रीभवन्तीति यावत् / अतः-अस्माद्धेतोः अचेतनानां वृक्षादीनामपि विनयभावेन निजजननीप्रणामदर्शनात् , चेतनेन, न पुनश्चेतनेनैव प्रत्युत उत्तमोत्तमप्रकृतिकेन मया किं कथमाचरणीयमिति विचारणाद्धेतोर्वा (असौ= विप्रकृष्टवर्ती) नृपः-नृन जनान्, पाति रक्षतीति नृपो--राजा, भगवान शान्तिनाथ इति यावत् / अपि-सम्भावनायाम् / अन्तःपुरम्