________________ 226 ] भीननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र समये / प्रमदात्-निरतिशयहर्षात् / पदे पदे-प्रतिपदम् / 'जय प्रभो !-हे स्वामिन् ! विजयस्व' ( इति प्रभुसम्बन्धिविजयप्रतिपादिकया ) / पौरगिरा-नागरिकभारत्या / आशिषः-आशीर्वादान , शुभाशंसनानीति यावत् / उदीरयन्त्यः-व्याहरन्त्यः / सुदृशः-सुष्ठु शोभने दृशौ नयने यासांतास्तथा, सुनयना इति यावत् / तम-सर्वत्र प्रसिद्धम् , भगवान् शान्तिनाथ इति यावत् / मौक्तिकैःमुक्ताफलैः / अवाकिरन्-व्यापयन् // 18 // चतुष्पथे जग्मुषि राजराजिभि-विभाविभाश्वोदितरेणवो नृणाम् / मिलन्निमीलं ससृजुर्विलोकिता, न चक्षुरक्षुब्धसमक्षवीक्षणात् // 19 // अन्वयः-राजराजिभिः, (समम् ) चतुष्पथे, जग्मुषि, विभौ, इभाश्वोदितरेणवः, विलोकिताः, (सत्यः) नृणाम् , अक्षुब्धसमक्षवीक्षणात् , मिलन्निमीलम् , चक्षुः, न, ससृजुः // 19 // वृत्तिः-राजराजिभिः-राज्ञां नरपतीनाम् , पृथिवीपालकत्वेन स्थितानाम् , राजयः-श्रेण्यो, राजराजयस्ताभिस्तथा / ( समम्-सह ) चतुष्पथे-चतुर्णा पथां, मार्गाणाम् समाहारश्चतुष्पथम् तस्मिंस्तथा / जग्मुपि-गतवति / विभौ-प्रभौ, भगवति शान्तिनाथ इति यावत् / इभाश्वोदितरेणव:इभाः-हस्तिनश्च अश्वाः-तुरङ्गमाश्च इभाश्वम् , प्राण्यङ्गत्वादेकवद्भावः, तेन उदिता अन्तर्भावितणिगर्थत्वादुत्थापिता, इभाश्वोदिताः ताश्च ता रेणवो धूलयः, पृथ्वीकणा इति यावत्, इभाश्वोदितरेणवः / विलोकिताः-अवलोकिताः दृष्टा इति यावत् / सत्य इति शेषः / नृणाम्-नराणाम् 'नुर्वा' 1 / 4 / 48 / इति वा दीर्घः / अक्षुब्धसमक्षवीक्षणात्-अक्षुब्धं यथा स्यात्तथा समक्षस्य प्रत्यक्षस्य वस्तुनो वीक्षणमवलोकनम् अक्षुब्धसमझवीक्षणन्तस्मात्तथा / मिलनिमीलम-कृतनेत्रसङ्कोचम् / चक्ष:-नयनम् / ननहि / सृसजुः--चक्रुः // 19 // पुरन्दरेणापि समीयुषा सुरैः, प्रतिष्ठतास्तुष्टिपरेण वृष्टिभिः / स्वकेतनश्छादयता प्रणेमुषा, नमस्वतस्तं कुसुमेषु केलयः // 20 // अन्वयः-सुरैः, तुष्टिपरेण, स्वकेतन, वृष्टिभिः, तम् , छादयता, प्रणेमुषा, समीयुषा, पुरन्दरेण, अपि, कुसुमेषु, नभस्वतः, केलयः, प्रतिष्ठिताः // 20 // ___ वृति-सुरैः-देवैः / तुष्टिपरेण-तुष्टिः सन्तुष्टिः परा श्रेष्ठा यस्य स तुष्टिपरस्तेन तथा परः भेष्ठारिदूरान्यो-तरे क्लीनं तु केवळे इति मेदिनी। स्वकेतन:-निनचिहभूतैः / वृष्टिभिः-वर्षणैः / तम्-प्रसिद्धं, भगवन्तं शान्तिनाथमिति यावत् / छादयता-आच्छादयता, छायामापादयतेति यावत् / समीयुषा-सामीप्यमुपगतवतेति यावत् / पुरन्दरेण-इन्द्रेण / अपि-समुपये / कुसुमेह