________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां चतुर्थः सर्गः [ 225 प्रायो यस्य स महाशयः, महानुभाव इति यावद / पुरप्रवेशे-नगरप्रवेशनसमय इत्यर्थः / महेउत्सवे / महतीति मह इति व्युत्पत्याऽकारान्त महशब्दस्यापि समुत्सववाचित्वदर्शनात् / प्रवृत्तेसञ्जातप्रारम्भे / (सति) ता:-प्रसिद्धाः / नररूपधारिणी:-नरस्य पुंस्त्वविशिष्टस्य पुरुषस्य रूपमाकृतिर्नररूपम् तद्धरन्ति तच्छीला नररूपधारिण्यः / तास्तथा / पणाङ्गनाः-पणेन मूल्येन लभ्याः पणलभ्यास्ताश्च ता अङ्गनाः प्रशस्तावयवविन्यासवत्यो रमण्यः पणाङ्गनाः, "मयूरव्यंसकेत्यादयः" 3 / 1 / 116 // इत्यनेन शाकपार्थिवादेराकृतिगणत्वान्मध्यमपदलोपी समासः / नटयन-नर्तयन् / ताभिर्नृत्यं कारयन्निति यावत् / ययो-जगाम / गतवानिति यावत् / / 16 / / पुरो हठात् क्षिप्ततुषारपाण्डुर-च्छदावृतं गोपुरमस्य चक्रिणः / प्रवेशयोगेऽप्यरुचत् सतोरणं, रणद्विपाश्वेन समं समन्ततः // 17 // अन्वयः-अस्य, चक्रिणः, हठात् , पुरः, प्रवेशयोगे, क्षिप्ततुषारपाण्डुरच्छदावृतम् , सतोरणम , गोपुरम् , रणद्विपाश्वेन, समम् , समन्ततः, अपि, अरुचत् // 17 // वृत्तिः अस्य-षोडशतीर्थकृत्तया प्रसिद्धस्यैतस्य / चक्रिणः-चक्रं सन्यम् राष्ट्र वाऽस्तीति चक्री चक्रवर्ती, सार्वभौम इति यावत् , तस्य तथा / हठात्-प्रसह्य / पुरः-नगरस्य / प्रवेशयोगेप्रवेशसम्बन्धे / क्षिप्ततुषारपाण्डुरच्छदावृतम्-क्षिप्तानि प्रक्षिप्तानि तुषारपाण्डुराणि च क्षिप्ततुषारपाण्डुराणि तानि च तानि छदानि दलानि, क्षिप्ततुषारपाण्डुरच्छदानि तैरावृत्तमाच्छादितम् तथा / सतोरणम्-तोरणेन बहिरेण सहितम् सतोरणम् / गोपुरम्-पुरद्वारम् / रणद्विपाश्वेन-द्विपा हस्तिनश्च, अश्वास्तुरङ्गमाश्च द्विपाश्वम् , “प्राण्यङ्गत्वादेकवद्भावः” रणत्-शब्दायमानश्च तद्विपाश्वम् रणद्विपाश्वम् तेन तथा / समम्-सार्धम् / समन्ततः-चतुर्दिक्षु / अपि-सम्भावनायाम् / अरुचत्-अद्युतत् // 17 // अवाकिस्तं सुदृशोऽथ मौक्तिकै-श्छदावृतेर्वीरुधि बद्धविभ्रमाः। पदे पदे पौरगिरा ‘जय प्रभों'-ऽप्युदीरयन्त्यः प्रमदात् तदाशिषः // 18 // अन्वयः-अथ, छदाकृते:, वीरुधि, बद्धविभ्रमाः, तदा, प्रमदात्, पदे पदे, 'जय प्रभो' (इति) पौरगिरा, आशिषः, अपि, उदीरयन्त्यः, सुदृशः, तम् , मौक्तिकः, अवाकिरन् // 18 // ....... वृत्तिः--अथ-नगरप्रवेशान्तरम् / छदावृतेः-छदनसम्बन्ध्यावरणस्य / सम्बन्धिन्यामिति शेषः / वीरुधि-लतायाम् / बद्धविभ्रमा:-कृतविशिष्टभ्रमाः, कृतपक्षिभ्रमणा वा / तदा-तस्मिन्