________________ 224 ] श्रीननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र . तावकम् / हविर्मुजोऽग्नयस्तेषां तथा / आहवन:-आ सर्वतोभावेन हवनानि होमा, आज्यप्रक्षेपाः, आहवनानि तैस्तथा / त्रटिकूटभक्षितम्-नाशकपटेन भक्षितम् / तमिस्रपक्षम्-अन्धकारपक्षम् / तम्-तमोभरम् , अन्धकारातिशयम् / एव-अप्यर्थः, स च प्रकृते, समुच्चयः / धूमभ्रमतः-धूमस्य दहनकेतनस्य भ्रमो भ्रान्तिधूमभ्रमस्तस्मात्तथा / अपिशब्दादन्यदपि / दूरयत्-दूरीकुर्वत् , विनाशयदिति यावत् // 15 // नरक्षणे कुत्रचिदेव पुत्रिका-कदम्बकं विभ्रमभाविताम्बकम् / ददर्श लोकः स्वयमेव नर्तने, कलाकलापं किल वैधवं वमन् // 16 // अन्वयः - स्वयम् , एव, नर्तने, वैधवम् , कलाकलापम् वमन् , किल, लोकः, नरक्षणे, कुत्रचित् , एव, (स्थाने) विभ्रमभाविताम्बकम् , पुत्रिकाकदम्बकम् , ददर्श // 16 // .. वृत्तिः-स्वयम्-आत्मना / एव-अवधारणार्थकमव्ययम् / नर्तने-नटने। वैधवम्-विधोरच्युतस्यायं वैधवस्तं तथा / अच्युतसम्बन्धिनमिति यावत् / कलाकलापम्-कौशलसमुदयम् / यद्वा-विधोश्चन्द्रस्यायं वैधवस्तं तथा / चन्द्रसम्बन्धिनम् इवि / कलाकलापम्-कलासमूहम् / इत्येवमर्थोऽनुसन्धेयः / वमन्-उद्भिरन् / किल-सम्भावनायाम् / लोक:-जनः / नरक्षणे-न रक्षणं त्राणं यत्र तत् नरक्षणम् , निषेधार्थकेन न-शब्देन समासः / तस्मिंस्तथा / कुत्रचित्-कस्मिंश्चित्। एव-अवधारणार्थकमव्ययम् / स्थानविशेष इति यावत् / विश्रममाविताम्बकम्-विभ्रमेण भाविते संस्कारिते अम्बके लोचने यस्य तत् विभ्रमभाविताम्बकम् तत्तथा / पुत्रिकाकदम्बकम्-पुत्रिकायाः (कन्यकायाः) पुत्तलिकायाः वा कदम्बकम् समूहः पुत्रिकाकदम्बकम् तत्तथा / ददशे-दृष्टवान् // 16 // पाठान्तरम्-- अथ प्रवृत्ते स महे महाशयः, पणाङ्गनास्ता नररूपधारिणीः / पुरप्रवेशे नटयन् ययौ स्वयं, कलाकलापं किल वैध वमन् // 16 // अन्वयः- अथ, स्वयम् , वैधवम् , कलाकलापम् , वमन् , किल, सः, महाशयः, पुरप्रवेशे महे, प्रवृत्ते, (सति) तार, नररूपधारिणीः, पणाङ्गनाः, नटयन् , ययौ // 16 // वृत्तिः--अथ-अनन्तरम् / स्वयम् आत्मना / वैधवम्-चन्द्रसम्बन्धिनम् / कलाकलापम्कलासमूहम्। वमन-उद्विरम् / किल-निश्चयेन / सः-प्रसिद्धः। महाशयः-महान् विशाल आशयोऽभि