________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां चतुर्थः सर्गः [ 223 सिताशुक्ला द्युतिः कान्तिर्यस्य स सितद्युतिः / मुनिद्रम:-अगस्त्यवृक्षः / अन्वहम्-प्रत्यहम् / कोरकितःकोरकः कलिका सञ्जातोऽस्य कोरकितः / सञ्जातकोरक इति यावत् / मेने-अवबुबुधे / ज्ञात इति यावत् // 13 // उपायनैः श्याममणीगिरिजनै-र्वनेऽमुनाऽमन्यत सिंहकासुतः। विलोक्य कान्तामिह राजमण्डली, स्वमार्गभेदानुगमात् सचेतसा // 14 // अन्वयः--इह, वनं, कान्ताम् , राजमण्डलीम् , विलोक्य, स्वमार्गभेदानुगमात् , सचेतसा, अमुना, जनः, (विहितः) उपायन:, श्याममणीः, गिरिः, सिंहकासुता, अमन्यत // 14 // वृत्तिः-इह-अस्मिन् / वने-कानने / कान्ताम्-मनोहराम् / रानमण्डलीम्-राज्ञा नृपतीनां मण्डली, राजमण्डली तां तथा / विलोक्य-प्रेक्ष्य / स्वमार्गभेदानुगमात्-स्वमार्गभेदस्य निजपथविशेषस्य अनुगमोऽवबोधः स्वमार्गभेदानुगमस्तस्मात्तथा / सचेतसा-चेतसाऽन्तःकरणेन बुद्धये ति यावत् / अमुना-सहितः सचेतास्तेन तथा / पण्डितेनेति यावत् / भगवता शान्तिनाथेन / जनैः-लोकैः / (विहितैः कृतैः) उपायनैः- उपहारैः / श्याममणी:-श्यामः श्यामलो मणीरिव रत्नमिव / श्याममणीः / “उपमेयं व्याघ्राद्यैः साम्यानुक्तौ” 3 / 1 / 102 // इत्यनेन समासः अथवा / श्याममणी लकान्तमणिरिवेति, लुप्तोपमा / गिरिः-पर्वतः / नीलगिरिरितियावत् / सिंहिकासुतःसिंहिकायास्तदाख्यराहुजनन्याः सुतः पुत्रः सिंहिकासुतो राहुः / अमन्यत-साक्षाद्राहुरेवायमित्यवाबुध्यत // 14 // बभौ तदा रात्रिपदेऽप्यहः सुकृन्महो द्विधाप्याहवनैर्हविर्भुजाम् / तमिस्रपक्ष टिकूटभक्षितं, तमेव धूमभ्रमतोऽपि दूरयत् // 15 // अन्वयः-तदा, रात्रिपदे, अपि, द्विधा, अपि, सुकृत्, महः, अहः, बभौ, (किंकुर्वत्) हविर्भुजाम् , आहवनैः, त्रुटिकूटभक्षितम् , तमिस्रपक्षम् , तम्, धूमभ्रमतः, अपि, दूरयत् // 15 // वृत्तिः-तदा-तस्मिन्नवसरे। रात्रिपदे-रात्रेर्निशायाः पदम-स्थानम् तस्मिन् रात्रिपदे। 'अधुना रात्रिः' इतिप्रतीतिविषयकालेऽपीति यावत् / अपि-सम्भावनायाम् / द्विधा-प्रकारद्वयेन / अपि-सम्भा वमायाम् / सुकृत्-सु-अतिशयेन करोति सम्पादयति कृत्यानि इति सुकृत् / महः-तेजःस्वरूपम् / अहःदिनम् / बभौ-शुशुभे / किंकुर्वदित्याकामायामाह- हविर्भजाम्-हविराज्यादिकः भुञ्जते इति