________________ 222 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे इत्येवंप्रकारेण) / हरेण-शङ्करेण / वैरे-विद्वेषे / (सति) तद्विजयैषिणा-तस्य स्मरस्य विजयस्तद्विजयस्तमिच्छत्यभिलषतीति तद्विजयैषी, तेन तथा / "अजातेः शीले" 5 / 1 / 154 // इत्यनेन तच्छीले 'णिन्' प्रत्ययः / कविना-बुधेन / सिसृक्षया-जगतो निर्माणेच्छयेत्यर्थः / अङ्गजा-अङ्गाच्छरीराज्जायते इत्यङ्गजः कामः, कन्दर्प इति यावत् / व्यनीयत-शिक्षितः, शिक्षा प्रापित इति यावत् // 11 // पुरोव पूर्वापणरत्नबिम्बतं, प्रतीच्यभागस्थितमर्जुनान्वितम् / वणिगमणिर्वीक्ष्यहृतार्थशङ्कया, स पाटलायाः स्तवकं प्रकम्पितः // 12 // अन्वयः-सः, वणिग्मणिः, पुरि, पूर्वापणरत्नविम्वितम् , इव, अजुनान्वितम् , प्रतीच्यभागस्थितम् , पाटलायाः, स्तवकम् , वीक्ष्य, हृतार्थशङ्कया, प्रकम्पितः // 12 // वृत्तिः-स:-प्रसिद्धः कश्चिदनिर्दिष्टनामधेयः / वणिग्मणिः-वणिक्षु नैगमिकेषु मणिः श्रेष्ठः, वणिग्मणिः, वणिकच्छ्रेष्ठ इति यावत्, मणिशब्दस्यापि रत्नप-यतया / पुरि-नगरे / पूर्वापणरनबिम्बितम्-पूर्वस्मिन् पूर्वभागे आपणो विपणिः पूर्वापणस्तत्र रत्नानि मणयः पूर्वापणरत्नानि तैर्बिम्बितं प्रतिबिम्बितम् , पूर्वापणरत्नबिम्बितम् / इव-यथा / अर्जुनान्वितम्-अर्जुनाख्यतृणसंवलितम् / प्रतीच्यभागस्थितम्-पश्चिमदिगवस्थितम् / पाटलाया:-पाटयति दौर्गन्ध्यं स्वीयसौरभेणेति पाटला "मृदिकन्दि" (उणा०) 465 / इत्यलः प्रत्ययः / तस्यास्तथा पाटलेत्यर्थः। 'पाटलिः पाटला' इत्यभि० चि० / स्तबकम्-गुच्छम् / वीक्ष्य-समवलोक्य / प्रकम्पितः-चकितः // 12 // मुनिद्रुमः कोरकितः सितद्युति-स्तदुत्सवेऽभ्यागतकामिनीमुखैः / स्फुरद्विभूषाङ्गमयूखसंमुखे - वनेऽपि मेने सुमनोभिरन्वहम् // 13 // अन्वयः--सुमनोभिः, स्फुरविभूषाङ्गमयूखसम्मुखः, वने, अपि, तदुत्सवे, अभ्यागतकामिनीमुखैः, सितधुतिः, मुनिडुमः, अन्वहम् , कोरकितः, मेने // 13 // वृत्तिः-सुमनोभिः-सुष्टु शोभनं मनोऽन्तःकरणं येषां ते सुमनसस्तैस्तथा / देवैर्विद्वद्भिवेत्यर्थः / स्फुरद्विभूषाङ्गमयखसम्मुखैः-स्फुरन्ती विलसन्ती चासौ विभूषा विभूषणम् , स्फुरद्विभूषा, सेव अङ्गमयूखाः शरीरावयवकिरणाः स्फुरद्विभूषाङ्गमयूखास्तेषां सम्मुखानि अभिमुखानि स्फुरद्विभूषाङ्गमयूखसम्मुखानि तैस्तथा / वने-कानने / अपि-सम्भावनायामव्ययम् / तदुत्सवे-पूर्ववर्णितप्रकारद्वादशवार्षिके महसि / अभ्यागतकामिनीमुखैः-अभ्यागताः समायाताश्च ताः कमिन्यो वामलोचना, अभ्यागतकामिन्यस्तासां मुखानि वदनानि, अभ्यागतकामिनीमुखानि तैस्तथा / सितधति: