________________ -आचार्य विजयामृतसूरीश्वरकृतायां विहिनोदिन्यां प्रथमः सर्गः वृत्तिः-यत्कथा-यस्य भगवतः शान्तिनाथस्य कथा यत्कथा, यत्सम्बन्धिनी कथेत्यर्थः / यदीयं चरित्रमिति यावत / बहुश्रतानाम्-बहूनि श्रुतानि शास्त्राणि श्रुतज्ञानानि वा येषान्ते बहुश्रुतास्तेषान्तथा गीतार्थानामिति यावत् / वदनात-आननाव मुखादिति यावत् / रसचालनया-रसैः शृङ्गारादिभिः क्षालना उडम्बलीकरणम् रसभालना, तया तथा / इव-तुल्यम् / अनावैः-न आश्रवस्तन्नामककर्मविशेषो येषान्तेऽनाश्रवास्तैस्तथा, आप्रवेऽलग्नमनोभिः सावधानै रिति यावत् / श्रता-आकर्णिता, श्रावणप्रत्यक्षविषयीकृतेति यावछ / सा-यत्कथा / जने-भावकजने। उच्चैःश्रवस:-उच्चैःश्रवाः-श्रावकजनपक्षे उत्कर्णता,विबुध - पक्षे च समुद्रमन्थनोत्पन्नोऽश्वः, तस्य / नियोजनात-विधानान करणादिति यावत् / अनिमेषात्-निमेषोनयननिमोलनम्, स च देवानां न भवतीति पुराणप्रसिद्धिः कविसमयश्च , तथा च देवपक्षे अनिमेषो निमीलनराहित्यम्, श्रावक जनपश् च अनिमेषः-चरित्रप्रवणजनितानन्दविशेषान्निमोलननिरोधस्तस्मात् . ( च ) / शुचिम्-पवित्राम् / विबुधक्रियाम्-देवचर्याम् / ददाति-वितरति / ___ अथवा अनिमेषादिति पदस्य न विबुधक्रियादातृत्वहेतुत्वेनोपन्यासः किन्तु तस्य न निमेषोऽक्षिनिमीलनमपि यत्र सोऽनिमेषोऽतिशयितसूक्ष्मकालविशेष इत्यर्थस्तथा च, अनिमेषादित्यस्य पदस्य अत्यन्तसूक्ष्मकालविशेषादेवेत्यर्थः / सर्वस्य वाक्यस्य सावधारणत्वादेवकारोऽर्थो न विरुध्यते श्लेबालकृतिः / / 11 / / समाधुरीका न कटुः श्रुतावपि, निशामनाद् याऽऽन्तरकश्मलापहा / कथं न सा मद्गिरमाविलामपि, न शोधयेन्नाथकथा यथास्थिता ? // 12 // __ अन्वयः-या, समाधुरीका, अपि, श्रुतौ, न, कटुः, निशामनात् , आन्तरकश्मलापहा, यथास्थिता, सा, नाथकथा, आविलाम् , अपि, मद्गिरम् , कथम् , न, न, शोधयेत् // 12 // .' वृत्तिः–या-भगवतः शान्तिनाथस्य कथा / समाधुरीका-माधुर्या मधुरतया, माधुर्येणेति यावत् सहिता समाधुरीका 'सहस्तेन' 311 / 24 / / इत्यनेन बहुव्रीहिसमासः / सहशब्दस्य सादेशः / अपि-खलु / श्रतौ-श्रवणे, अवच्छिन्नत्वं सप्तम्यर्थः, श्रवणावच्छेदेनेति यावत् / न-नहि / कटः-तीक्ष्णा, पोडाकरी इति यावत् / निशामनात श्रवणात , “निशमनं निशामनं निरीक्षणश्रवणयोः” इत्यनेकार्थः / आन्तरकश्मलापहा-अन्तः-अन्तःकरणे भवमान्तरम् , तञ्च तत्कश्मलम् , पापम् , मोह इति यावत्, आन्तरकश्मलम् , तदपहन्ति विनाशयतीति आन्तरकश्मलापहा "क्लेशादिभ्योऽपात्" 5 / 1 / 8 / / इत्यनेन हन्तेर्डः प्रत्ययः / “मोहो मूच्छी च कश्मलम्" 3 / 4 / 6 / / इत्यभिधानचिन्तामणिः / यथास्थिता-यथायथमवस्थिता। सा-प्रसिद्धा। नायकथा-नाथस्य स्वामिनः शान्तिनाथस्य कथा चरित्रमिति नाथकथा / आविलाम्-सदोषाम् / अपिखलु / मन्दिरम्-मम वाणीमित्यर्थः / कथम्-केन प्रकारेण / नन-नहीत्यर्थः / वीप्सायामेकस्यैव न शब्दस्य द्वित्वाद् “नन" इति रूपमवसेयम् , तथा च नद्वयस्यापि केबलं विशिष्टनिषेध एवार्थः / शोधयेत-विशुद्धयेत्, वाण्यां दोषरहित्यं कथन्नापादयेपित्वापादयेदेवेति // 12 //