________________ 10] श्रीजननवचीयमहाकाव्ये श्रीकान्तिनामचरित्रे ययाऽख्यया भव्यनृणां शुचीकृतं, स्मृतेर्मनो भावनया जगद्गुरोः / इयं विशेषात् प्रतिभां कथं न मे, स्वसेविनीमेव पवित्रयिष्यति // 13 // अन्वयः-यया, आख्यया, जगद्गुरोः, भावनया, स्मृतेः भव्यनृणाम् , मन:, शुचीकृतम् , इयम् , विशेषात् , स्वसेविनीम् , एव, मे, प्रतिमाम् , कथम् . न, पवित्रयिष्यति // 13 // वृत्तिः-यया-आख्यया-येन-भगवतः शान्तिनाथस्य नाम्ना / जगद्गुरो:-अगताम् भुवनानाम् गुरुर्धर्मोपदेशको जगद्गुरुः तस्य तथा, सर्वज्ञस्य भगवतः शान्तिनाथस्य / “गुरुधर्मोपदेशकः” 1177 / / इत्यभिधानचिन्तामणिः / भावनया-चिन्तनया, संस्कारविशेषेणेति यावत् / स्मृतेः-स्मरणाव / भावनाजन्यस्मृतेरिति यावत्, संस्कारजन्यज्ञानस्य स्मृतिस्वात् / भव्यनृणाम्-भव्याः-मोझगमनयोग्याच ते नरो मनुष्याः भव्यनरस्तेषान्तथा, भव्यात्मनामिति यावद, मनः-स्वान्तम् अन्तःकरणमिति यावत् / शुचीकृतम्शुचि-पवित्रम्, न शुचि अशुचि, अशुचि शुचिकृतं शुचीकृतम् "कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे खिः" 7 / 2 / 126 / इत्यनेनाभूततद्भावे च्विः प्रत्ययः “दीर्घश्वियङ्यक्क्येषु च" 4 / 3 / 108 // इत्यनेन कयौ परे इकारस्य दीर्घता च / इयम्-आख्या / विशेषात-विशेषतः / अन्यसेवाराहित्येन स्वसेवित्वादिति यावत् / स्वसेविनीयस्वसेवानुरक्ताम् / एव-खलु / मे-मम / प्रतिमाम-नवनवोन्मेषशालिनी बुद्धिम् / “बुद्धिर्नवनवोन्मेवशालिनी प्रतिभा मता / " इति साहित्यदर्पणोक्तेः / कथम्-केन प्रकारेण / न-नहि / पवित्रयिष्यतिपवित्रीकरिष्यति // 1 // अधीतिबोधाचरणप्रचारणैः, श्रुताम्बुधिनिगभीरनीरवान् / प्रभुर्विहारेण चतुर्दिगन्तरे, विमोहपकं कुरुते स्म दूरतः // 14 // अन्वयः-अधीतिबोधाचरणप्रचारणी, श्रुताम्बुधिः, ज्ञानगभीरनीरवान् , प्रमुः, चतुर्दिगन्तरे, विहारेण, विमोहपङ्कम् , दूरतः, कुरुते, स्म // 14 // वृत्तिः--अधीतिबोधाचरणप्रचारणैः-बोधोऽर्थज्ञानव, आचरणं कर्मानुष्ठानच प्रचारणमध्यापनश्च बोधाचरणप्रचारणानि, अधीतिरध्ययनञ्च बोधाचरणप्रचारणानि च अधीतिबोधाचरणप्रचारणानि तेस्तथेत्येवं बोधशब्दस्योत्तरेण समासं कृत्वाऽधीतिशब्देन समासः करणीयः, अन्यथा बोधशब्दस्य पूर्वनिपातः स्यात् , वस्तुतस्तु बोधाद्यपेक्षयाऽधीतेरय॑त्वाद, अधीतिश्च बोधश्च आचरणश्च प्रचारणञ्चेत्येवमधीतिशब्दपूर्वपदकसमासकरणेऽप्यधीतिशब्दस्य पूर्वनिपातः सूपपाद एव / भ्रताम्बुधि:-श्रुतं शास्त्रम् अवधिज्ञानं वा तदेव अम्बु जलम् श्रुताम्बु, वत् धीयतेऽस्मिन्निति श्रुताम्बुधिः “व्याप्यादाधारे" 5 / 3 / 88 // इत्यनेन धा धातोः कि: प्रत्ययः / ज्ञानगभीरनीरवान्-गभीरं गम्भीरच तन्नीरं जलम् गभीरनीरम् , शानमेव गभीरनीरम् ज्ञान