________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे जीनशष्ट्वरम्" 5 / 2177 // इत्यनेन जिधातोष्टवरप् प्रत्ययः / देवानां जित्वरो देवजित्वरः, भूवल्लभश्चासौ देवजित्वरो मूवल्लभदेवजित्वरः, कीर्तेर्मण्डलम् कीर्तिमण्डलम्, ज्वलन्ती चासौ प्रतापालिवलत्प्रतापावलिः, ज्वलत्प्रतापावलिः कीर्तिमण्डलं यस्य स ज्वलत्प्रतापावलिकोर्तिमण्डलः, भूवल्लभदेवजित्वरश्चासौ ज्वलत्प्रातापावलिकीर्तिमण्डलः भूवल्लभदेवजित्वरज्वलत्प्रतापावलिकीर्तिमण्डलः ( सन् ) अवनेः-पृथिव्याः / “भूर्भूमिः पृथिवी पृथ्वी..... गन्धमाताऽचलाऽवनिः" 4 / 1 / 2 इत्याभिधानचिन्तामणिः / प्रभुः-ईश्वरः / बभूवअभवत् // 9 // पवित्रमत्रातनुते जगधुगे-ऽभिधा विधानैर्बहुधा स्मृता विभोः / अरिष्टशान्तेर्नलिनीशपेशल-द्युतेः सतेजोऽनुभवेन सङ्गतेः // 10 // अन्वयः-विभोः, अभिधा, विधानः, सत्र युगे, स्मृता, ( सती ) बहुधा, जगत् , सा, पवित्रम् , तनुते, अरिष्टशान्तेः, नलिनीशपेशलधुतेः, सतेजोऽनुभवेन, सङ्गतेः (च) // 10 // वृत्तिः-विभो:-विशेषेण भवतीति विभुः, "शंसंस्वयंधिप्राद् भुवो दुः" 5 / 2 / 74 / / इत्यनेन डुः प्रत्ययः, तस्य विभोः, भगवतः शान्तिनाथस्येति यावत् / अभिधा-अभिधीयते कथ्यतेऽनयेत्यभिधा, नामेत्यर्थः "अथाऽऽह्वयोऽभिधा / गोत्रसंज्ञानामधेयाऽऽख्याऽऽहाऽभिख्याश्च नाम च" 2 / 174 // इत्यभिधानचिन्तामणिः / स्मृता-स्मरणपथमानीता, चिन्तिताऽऽकर्णितोच्चारिता वेति यावत् / (सती) अत्र-युगे अस्मिन् कलियुगे / बहुधा-बहुभिः प्रकारैः। जगत्-भुवनम् / आ-सामस्त्येन / पवित्रम्-पूतम् / तनुते-करोति / बहुभिः प्रकारैरित्युक्तम्, तानेव प्रकारान् दर्शयति “अरिष्टशान्तरित्यादिना अरिष्टशान्तः-नास्ति रिष्टं क्षेममत्रेत्यरिष्टम् उपसर्ग उपद्रव इति यावत् तस्य शान्तिः प्रशमनम् अरिष्टशान्तिस्तस्यास्तथा,” उपलिङ्गं त्वरिष्टं स्यादुपसर्ग उपद्रवः 2 / 39 // इत्यभिधानचिन्तामणिः / नलिनीशपेशलद्यतेः-नलिन्यः कमलिन्यस्तासामीशः स्वामी सूर्यास्तद्वत्, पेशला-पिंशत्येकदेशेन सर्व करोतीति पेशला "मृदिकन्दि" ( उणादि 435 ) इत्यनेन अलः प्रत्ययः. सूत्थानेत्यर्थः, द्युतिः कान्तिः-नलिनीशपेशलद्युतिस्तस्यास्तथा / “दक्षस्तु पेशलः / पटूष्णोष्णकसूत्थानचतुराश्च" // 48 // इत्यभिधानचिन्तामणिः / सतेजोऽनुभवेन-समानं तेजः-प्रभावः प्रतापो वा, सतेजस्तस्यानुभवः सतेजोऽनुभवस्तेन तथा / सङ्गते:-मिलनाञ्च / / 10 / / बहुश्रुतानां वदनादनाश्रवैः, श्रुता रसक्षालनयेव यत्कथा / ददाति सोच्चैःश्रवसो नियोजना-ज्ञानेऽनिमेषाद्विबुधक्रियां शुचिम्॥११॥ अन्वयः-यत्कथा, बहुश्रुतानाम्, वदनात् , रसक्षालनया, इव, अनाश्रवः, श्रुता, सा, जने, उच्चैःश्रवसः, नियोजनात् , अनिमेषात् , (च) शचिम् , विबुधक्रियाम् , ददाति // 11 //