SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः स वर्णनीयस्तत एव लक्षणे-विचक्षणैः संप्रति सन्निधानतः / सुवर्णदण्डैकसितातपत्रित - प्रभावकीर्योर्जनचित्तचित्रितः // 8 // अन्वयः-सः, ततः, एव, विचक्षणः, लक्षणः, संनिधानतः, वर्णनीयः, ( अथ च ) सम्प्रति, सुवर्णदण्डैकसितातपत्रितप्रभावकीत्योः, जनचित्तचित्रितः // 8 // वृत्तिः सः-प्रसिद्धो नलः / तत:-भगवतः शान्तिनाथस्य चरणारविन्दसंसेवनात् नयाभयाच्च हेतोः / एव-खलु / विचक्षणः-विशेषेण गुणादिकं चक्षते कथयंतीति विचक्षणानि, तैस्तथा / विलक्षणरिति पाठः साधीयान् / लक्षणैः-लक्ष्मभिः / असाधारणधर्मादिभिरिति यावत् / सनिधानत:-सान्निध्यात् / प्रसङ्गवशादिति यावत् / वर्णनीय:-प्राशस्त्यवत्त्वेन निरूपणीयः / ( अथ च ) सम्प्रति-अद्यापि / स्वर्णदण्डै कसितातपत्रितप्रभावकीयो:-सुवर्णस्य दण्डः सुवर्णदण्डः, एकञ्च तत्सितञ्च तदातपत्रश्चैकसितातपत्रम्, सुवर्णदण्डश्च एकसितातपत्रश्च सुवर्णदण्डकसितातपत्रे, सुवर्णदण्डैकसितातपत्रे कृते तद्वदाचरिते वा सुवर्णदण्डैकसितातपत्रिते, प्रभावः-प्रतापश्च कीर्तियशश्चेति प्रभावको”, सुवर्णदण्डैकसितातपत्रिते चेमे प्रभावकीर्ती, सुवर्णदण्डैकसितातपत्रितप्रभावकीर्ती तयोस्तथा, सप्तमी चात्र वैर्षायकी बोध्या, तथा च तादृशप्रभावकीर्तिविषये इत्यर्थः / जनचित्तचित्रित:-जनानां लोकानाम् चित्तानि जनचित्तानि तेषु चित्रितः प्रतिमायितः जनचित्तचित्रितः, लोके स्मरणीय इत्यर्थः / यद्वा-अत्र श्लोके विचक्षणैरिति पदं न करणतृतीयान्तम्, किन्तु कर्तृतृतीयान्तमेव तथा च सः तत एव हेतोः लक्षणैः करणैः सन्निधानतः, विचक्षणैः-कर्तृभिः-विद्वद्भिः, वर्णनीय इत्येवमन्वयोऽवसेयः // 8 // रसादशास्योऽप्यदसीयसेवनेऽवनेः प्रभु स्वरकान्तिभास्करः / बभूव भूवल्लभदेवजित्वरज्ज्वलत्प्रतापावलिकीर्तिमण्डलः // 9 // अन्वयः-दशास्यः, अपि, अदसीयसेवने, रसात् , भाखरकान्तिभास्करः, भूवल्लभदेवजित्वरज्ज्वलत्प्रतापावलिकीर्तिमण्डलः, ( सन् ) अवनेः प्रभुः, बभूव // 9 // वृत्तिः-दशास्यः-दश दशत्वसम्ख्याकानि आस्यानि मुखानि यस्य स दशास्यः, स्वनामप्रसिद्धलङ्काराजो लोकरावणो रावणः / अपि-खलु / अदसीयसेवने-अमुष्य भगवतः शान्तिनाथस्य इदम् अदसीयम्, तत्सम्बन्धीत्यर्थः, अदसीयञ्च तत्सेवनमदसीयसेवनम्, तस्मिन् तथा / रसात-आवेशात्, समुत्कण्ठिततया प्रवृत्तेरिति यावत् / भास्वरकान्तिमास्करः-भास्वरा देदीप्यमाना चासौ कान्तिः प्रभा भास्वरकान्तिस्तया भास्करः सूर्य इति भास्वरकान्तिभास्करः / भूवल्लभदेवजित्वरज्ज्वलत्प्रतापावलिकीर्तिमण्डला-भुवः-पृथिव्या वल्लभः पतिः भूपतिः, "प्रेयसी दयिता कान्ता प्राणेशा वल्लभा प्रिया" 3179 / / अ० चि० इत्यनन्तरम् "प्रेयस्याधाः पुंसि पत्यौ” इति दर्शनाद वल्लभशब्दस्यापि पतिवाचकत्वाद, जयति तच्छीलो जित्वरः “सृ
SR No.004339
Book TitleShantinath Charitram
Original Sutra AuthorAmrutsuri
AuthorAbhaydevsuri
PublisherJain Sahitya Vardhak Sabha
Publication Year1965
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy