________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे वृत्तिः–यस्य-भगवतः शान्तिनाथस्य / कथा-श्रवणात कीर्तनाद्वा मोक्षादिप्रापकं, चरित्रम् / रसैः-शृङ्गारादिभिनवभी रसैः / सुधावधीरिणी-षडरसां सुधाम् अमृतम् अवधीरयति तिरस्कगेतीत्येवंशीला, सुधावधीरिणी 'अजातेः शीले' इत्यनेन शोलेऽर्थे णिन् प्रत्ययः, सुधायाः षड्रसत्वं व्याख्यातृप्रसिद्धचा मन्तव्यम्, मधुररसयुक्तैव वा यस्स कथा स्वादैः कृत्वा सुधाया अवधिम् उत्कृष्टसुधामिति यावत्, तामीरयति क्षिपतीत्येवंशीला / सकृत्-एकवारमपि / कृता-विहिता श्रुता वर्णिता वा / नृणाम्-मनुष्याणाम् / दुष्कृतम्पापम् / “अस्त्री पत पुमान् पाप्मा पापं किल्विषकल्मषम् / कलुषं वृजिनैनोऽधमंहो दुरितदुष्कृतम्" 1 / 4 / 23 // इत्यमरकोशः / कुन्तति-छिनत्ति, निवारयति, दूरीकरोतीति यावत् / हिमाद्रिजाता-हिमाचलसंभूता / स्वत:-आत्मनैव / आगता-समायाता / नमस्वतः-पवनस्य, वायोरिति यावत् "नभस्वद्वातपवनपवमानप्रभञ्जनाः" / / 1 / 63 // इत्यमरकोशः / लहरी-प्रवाहः / क्षमातले-भूमण्डले / तापम्-सूर्यप्रखर किरणसम्पर्कादिजनितसन्तापम् / इव- तुल्यम् / हिमाचलसम्बन्धिलघुतुषारसम्पृक्तपवनो यथा पृथ्वीतले ग्रीष्मादिजनितसन्तापसन्दोहमपनयति तथा सकृदपि कृतैतत्कथा जन्मजन्मान्तरोपार्जितकायिकवाचिकमानसिकनानाविधपापकदम्बकं मनुष्येभ्यो निवारयतीति भावः / दृष्टान्तलङ्कारः // 6 // अमुष्य संसेवनया नयाश्रयात्, नलः स भूजानिरभूद् गुणाद्भुतः। ग्यात् समुत्तीर्य दुरोदरादराद्, दुरापदं चन्द्र इव ग्रहोदिताम् // 7 // अन्वयः-अमुष्य, संसेवनया, नयाश्रयात्, ग्रहोदिताम्, दुरापदम् , चन्द्रः, इव, दुरोदरादरात्, ( दुरापदम् ) रयात् , समुत्तीर्य, सः नलः, गुणाद्भुतः, भूजानिः, अभूत् // 7 // वृत्तिः-अमुष्य-भगवतः शान्तिनाथस्य / संसेवनया-मनोवाक्कायद्वारा समीचीनप्रकारेण सेवयेत्यर्थः / नयाश्रयात-नयस्य नीतिमार्गस्य आश्रयः अवलम्बनम् नयाश्रयस्तस्मात्तथा / यद्वा-नयाश्रयात्, अमुष्य, संसेवनया, इत्येवमन्वयः कार्यः / नीतिमार्गमवलम्ब्य तस्य भगवतः शुश्रषयेति पदत्रयसमुदितार्थः / ग्रहोदिताम्-प्रहणजाताम् / दुरापदम्-दुर्दुष्टा चासौ आपद विपत्तिर्दुरापत् तान्तथा / चद्रः-चन्द्रमाः / इव-तुल्यः / दुरोदरादरात्-दुरोदरे-छूते आदरः- सत्कारः स्पृहेति यावत् दुरोदरादरस्तस्मात् / पञ्चम्यर्थो जन्यत्वम् दुरोदरादरजन्यामित्यर्थः / ( दुरापदम्-अतिशयदुःखदायिनी विपत्तिम् ) / रयात-वेगाव, झटित्येवेत्यर्थः / समुत्तीर्य-पारयित्वा / विपदर्णवं तरीत्वेत्यर्थः / सः-प्रसिद्धः / नल:-स्वाभिधेयप्रसिद्धो भूपतिः। गणादभुतः-गुणैः सौन्दर्यादिभिः सन्धिविग्रहादिभिर्वा अद्भुत आश्चर्यरूपो गुणाद्भुतः / भजानिः-भूःपृथिवी जाया भार्या यस्य स तथा 'जायाया जानिः' 7 / 3 / 164 / इति जायाशब्दस्य जानिरित्यादेशो बहुव्रीहौ / अभूत-जातः / “सर्व वाक्यं सावधारणं भवतीति" न्यायात्स नल एव भूजानिरमूव नान्य इत्यर्थः // 7 //