________________ -आचार्यविजयामृतसूरीश्वतकृतायां विद्वद्विनोदिन्यां चतुर्थः सर्गः [219 जिनेऽभिषिक्तेऽनुपदं तदञ्चने, समुच्चरच्चन्दनसारसौरभम् / वन बभूवाऽऽगतदृग्गुणप्रम - सहस्रदेशेशकृतैर्महोत्सवैः // 6 // अन्वयः--जिने, अभिषिक्ते, ( सति ) आगतदृग्गुणप्रमसहस्रदेशेशकृतः, महोत्सवैः, तदञ्चने, वनम्, अनुपदम् , समुच्चरच्चन्दनसार सौरभम् , बभूव // 6 // ___ वृत्तिः-जिने-अर्हति, तीर्थकरे भगवति शान्तिनाथे इति यावत् / अभिषिक्तराजत्वसम्पादनजननाभिषेकमधिगते सतीत्यर्थः / आगतहग्गुणप्रमसहस्रदेशेशकृतैः- "दृकशब्देन द्वयम्, गुणशब्देन त्रयम्, अङ्कानां वामतो गतिः" इति कविसम्प्रादायत् समुपागतद्वात्रिंशत्सहस्रराजसम्पादितैरित्यर्थः / महोत्सवैः- महान्तोऽतिशयिताश्च त उत्सवा महांसि उद्धर्षा इति यावत् महोत्सवास्तैस्तथा / तदश्चने-तस्य भगवतः शान्तिनाथस्य अश्चनम् पूजनम् , तदश्चनम् तस्मिंस्तथा / सतीति शेषः / वनम्-उद्यानकाननम् / अनुपदम्-त्वरितमेवेत्यर्थः / समुच्चरच्चन्दनसारसौरभम्-समुच्चरत् समुद्गच्छच्चन्दनवत् पटीरवत् सारं श्रेष्ठं सौरभं यस्मादिति वा तथा / सारशब्देन घनसारः कर्पूरो लक्षणया, श्रीखण्डयुक्तः सार इति वा / बभूव-अभवत् // 6 // विशुद्धमुक्ताभरणाद् गुणान्वितं, सदोन्नतं काममलीनताश्रयम् / स वारनारीकुचसञ्चितोपम, शमेन मेने प्रभुतापदं प्रभुः // 7 // अन्वयः-सः, प्रमुा, विशुद्धमुक्ताभरणात्, गुणान्वितम् , सदोन्नतम् , काममलीनताश्रयम् , वारनारीकुचसञ्चितोपमम् , प्रभुतापदम् , शमेन, मेने // 7 // वृत्तिः-स:-त्रिभुवनप्रसिद्धः / प्रभु:-स्वामी, ईशितेत्यर्थः / विशुद्धमुक्तामरणात्-विशुद्धाऽतिनिर्मलाश्च ता मुक्ता मौक्तिकानि विशुद्धमुक्ताः, तासामाभरणम् , अलङ्कारो, विशुद्धमुक्ताभरणम् तस्मात्तथा / गुणान्वितम्-गुणैः त्यागसत्त्वशौर्यादिभिरन्वितम् सम्बद्धम् , गुणान्वितम् / सदोन्नतम्सदा सर्वदा उन्नतमुच्छ्रितम् सदोन्नतम् ‘साहकारमिति यावत् / काममलीनताश्रयम्-कामेन कन्दर्पण, मलीनताश्रयम्-मालिन्यास्पदम् / चुचुके श्यामत्वात् पक्षे-कामः-स्मरः, लोभो वा, तस्य मलीनताश्रयम् / यद्वा काममत्यर्थम्-अलीनताश्रयम् कापि न लोनम चञ्चलमिति यावत् / वारनारीकुचसञ्चितोपमम्वारनारी वेश्या, तस्याः कुचौ स्तनौ वारनारीकुचौ ताभ्यां सचिताऽर्जिता उपमा सादृश्यं येन तत्तथा / प्रभुतापदम् -प्रभुतायाः स्वामितायाः पदमास्पदम् प्रमुतास्पदम् तत्तथा / शमेन-शान्त्या / मेनेअवबुबोधे // 7 //